Sūkta 153
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 2); triṣṭup (3); bhurikpaṅkti (4)
2nd set of styles triṣṭubh
-
Ṛk 1
यजा॑महे वां म॒हः स॒जोषा॑ ह॒व्येभि॑र्मित्रावरुणा॒ नमो॑भिः ।
घृ॒तैर्घृ॑तस्नू॒ अध॒ यद्वा॑म॒स्मे अ॑ध्व॒र्यवो॒ न धी॒तिभि॒र्भरं॑ति ॥यजामहे वाम् महः सजोषा हव्येभिर् मित्रावरुणा नमोभिः |
घृतैर् घृतस्नू अध यद् वाम् अस्मे अध्वर्यवो न धीतिभिर् भरन्ति ||yájāmahe vām maháḥ sajóṣā havyébhirmitrāvaruṇā námobhiḥ ǀ
ghṛtáirghṛtasnū ádha yádvāmasmé adhvaryávo ná dhītíbhirbháranti ǁyajāmahe vām mahaḥ sajoṣā havyebhir mitrāvaruṇā namobhiḥ |
ghṛtair ghṛtasnū adha yad vām asme adhvaryavo na dhītibhir bharanti ||यजा॑महे । वा॒म् । म॒हः । स॒ऽजोषाः॑ । ह॒व्येभिः॑ । मि॒त्रा॒व॒रु॒णा॒ । नमः॑ऽभिः ।
घृ॒तैः । घृ॒त॒स्नू॒ इति॑ घृतऽस्नू । अध॑ । यत् । वा॒म् । अ॒स्मे इति॑ । अ॒ध्व॒र्यवः॑ । न । धी॒तिऽभिः॑ । भर॑न्ति ॥यजामहे । वाम् । महः । सऽजोषाः । हव्येभिः । मित्रावरुणा । नमःऽभिः ।
घृतैः । घृतस्नू इति घृतऽस्नू । अध । यत् । वाम् । अस्मे इति । अध्वर्यवः । न । धीतिऽभिः । भरन्ति ॥yájāmahe ǀ vām ǀ maháḥ ǀ sa-jóṣāḥ ǀ havyébhiḥ ǀ mitrāvaruṇā ǀ námaḥ-bhiḥ ǀ
ghṛtáiḥ ǀ ghṛtasnū íti ghṛta-snū ǀ ádha ǀ yát ǀ vām ǀ asmé íti ǀ adhvaryávaḥ ǀ ná ǀ dhītí-bhiḥ ǀ bháranti ǁyajāmahe ǀ vām ǀ mahaḥ ǀ sa-joṣāḥ ǀ havyebhiḥ ǀ mitrāvaruṇā ǀ namaḥ-bhiḥ ǀ
ghṛtaiḥ ǀ ghṛtasnū iti ghṛta-snū ǀ adha ǀ yat ǀ vām ǀ asme iti ǀ adhvaryavaḥ ǀ na ǀ dhīti-bhiḥ ǀ bharanti ǁ1.153.1 Aṣṭaka 2.2.23.1Anuvāka 1.21.99
-
Ṛk 2
प्रस्तु॑तिर्वां॒ धाम॒ न प्रयु॑क्ति॒रया॑मि मित्रावरुणा सुवृ॒क्तिः ।
अ॒नक्ति॒ यद्वां॑ वि॒दथे॑षु॒ होता॑ सु॒म्नं वां॑ सू॒रिर्वृ॑षणा॒विय॑क्षन् ॥प्रस्तुतिर् वां धाम न प्रयुक्तिर् अयामि मित्रावरुणा सुवृक्तिः |
अनक्ति यद् वां विदथेषु होता सुम्नं वां सूरिर् वृषणाव् इयक्षन् ||prástutirvām dhā́ma ná práyuktiráyāmi mitrāvaruṇā suvṛktíḥ ǀ
anákti yádvām vidátheṣu hótā sumnám vām sūrírvṛṣaṇāvíyakṣan ǁprastutir vāṃ dhāma na prayuktir ayāmi mitrāvaruṇā suvṛktiḥ |
anakti yad vāṃ vidatheṣu hotā sumnaṃ vāṃ sūrir vṛṣaṇāv iyakṣan ||प्रऽस्तु॑तिः । वा॒म् । धाम॑ । न । प्रऽयु॑क्तिः । अया॑मि । मि॒त्रा॒व॒रु॒णा॒ । सु॒ऽवृ॒क्तिः ।
अ॒नक्ति॑ । यत् । वा॒म् । वि॒दथे॑षु । होता॑ । सु॒म्नम् । वा॒म् । सू॒रिः । वृ॒ष॒णौ॒ । इय॑क्षन् ॥प्रऽस्तुतिः । वाम् । धाम । न । प्रऽयुक्तिः । अयामि । मित्रावरुणा । सुऽवृक्तिः ।
अनक्ति । यत् । वाम् । विदथेषु । होता । सुम्नम् । वाम् । सूरिः । वृषणौ । इयक्षन् ॥prá-stutiḥ ǀ vām ǀ dhā́ma ǀ ná ǀ prá-yuktiḥ ǀ áyāmi ǀ mitrāvaruṇā ǀ su-vṛktíḥ ǀ
anákti ǀ yát ǀ vām ǀ vidátheṣu ǀ hótā ǀ sumnám ǀ vām ǀ sūríḥ ǀ vṛṣaṇau ǀ íyakṣan ǁpra-stutiḥ ǀ vām ǀ dhāma ǀ na ǀ pra-yuktiḥ ǀ ayāmi ǀ mitrāvaruṇā ǀ su-vṛktiḥ ǀ
anakti ǀ yat ǀ vām ǀ vidatheṣu ǀ hotā ǀ sumnam ǀ vām ǀ sūriḥ ǀ vṛṣaṇau ǀ iyakṣan ǁ1.153.2 Aṣṭaka 2.2.23.2Anuvāka 1.21.100
-
Ṛk 3
पी॒पाय॑ धे॒नुरदि॑तिर्ऋ॒ताय॒ जना॑य मित्रावरुणा हवि॒र्दे ।
हि॒नोति॒ यद्वां॑ वि॒दथे॑ सप॒र्यन्त्स रा॒तह॑व्यो॒ मानु॑षो॒ न होता॑ ॥पीपाय धेनुर् अदितिर् ऋताय जनाय मित्रावरुणा हविर्दे |
हिनोति यद् वां विदथे सपर्यन् स रातहव्यो मानुषो न होता ||pīpā́ya dhenúráditirṛtā́ya jánāya mitrāvaruṇā havirdé ǀ
hinóti yádvām vidáthe saparyántsá rātáhavyo mā́nuṣo ná hótā ǁpīpāya dhenur aditir ṛtāya janāya mitrāvaruṇā havirde |
hinoti yad vāṃ vidathe saparyan sa rātahavyo mānuṣo na hotā ||पी॒पाय॑ । धे॒नुः । अदि॑तिः । ऋ॒ताय॑ । जना॑य । मि॒त्रा॒व॒रु॒णा॒ । ह॒विः॒ऽदे ।
हि॒नोति॑ । यत् । वा॒म् । वि॒दथे॑ । स॒प॒र्यन् । सः । रा॒तऽह॑व्यः । मानु॑षः । न । होता॑ ॥पीपाय । धेनुः । अदितिः । ऋताय । जनाय । मित्रावरुणा । हविःऽदे ।
हिनोति । यत् । वाम् । विदथे । सपर्यन् । सः । रातऽहव्यः । मानुषः । न । होता ॥pīpā́ya ǀ dhenúḥ ǀ áditiḥ ǀ ṛtā́ya ǀ jánāya ǀ mitrāvaruṇā ǀ haviḥ-dé ǀ
hinóti ǀ yát ǀ vām ǀ vidáthe ǀ saparyán ǀ sáḥ ǀ rātá-havyaḥ ǀ mā́nuṣaḥ ǀ ná ǀ hótā ǁpīpāya ǀ dhenuḥ ǀ aditiḥ ǀ ṛtāya ǀ janāya ǀ mitrāvaruṇā ǀ haviḥ-de ǀ
hinoti ǀ yat ǀ vām ǀ vidathe ǀ saparyan ǀ saḥ ǀ rāta-havyaḥ ǀ mānuṣaḥ ǀ na ǀ hotā ǁ1.153.3 Aṣṭaka 2.2.23.3Anuvāka 1.21.101
-
Ṛk 4
उ॒त वां॑ वि॒क्षु मद्या॒स्वंधो॒ गाव॒ आप॑श्च पीपयंत दे॒वीः ।
उ॒तो नो॑ अ॒स्य पू॒र्व्यः पति॒र्दन्वी॒तं पा॒तं पय॑स उ॒स्रिया॑याः ॥उत वां विक्षु मद्यास्व् अन्धो गाव आपश् च पीपयन्त देवीः |
उतो नो अस्य पूर्व्यः पतिर् दन् वीतम् पातम् पयस उस्रियायाः ||utá vām vikṣú mádyāsvándho gā́va ā́paśca pīpayanta devī́ḥ ǀ
utó no asyá pūrvyáḥ pátirdánvītám pātám páyasa usríyāyāḥ ǁuta vāṃ vikṣu madyāsv andho gāva āpaś ca pīpayanta devīḥ |
uto no asya pūrvyaḥ patir dan vītam pātam payasa usriyāyāḥ ||उ॒त । वा॒म् । वि॒क्षु । मद्या॑सु । अन्धः॑ । गावः॑ । आपः॑ । च॒ । पी॒प॒य॒न्त॒ । दे॒वीः ।
उ॒तो इति॑ । नः॒ । अ॒स्य । पू॒र्व्यः । पतिः॑ । दन् । वी॒तम् । पा॒तम् । पय॑सः । उ॒स्रिया॑याः ॥उत । वाम् । विक्षु । मद्यासु । अन्धः । गावः । आपः । च । पीपयन्त । देवीः ।
उतो इति । नः । अस्य । पूर्व्यः । पतिः । दन् । वीतम् । पातम् । पयसः । उस्रियायाः ॥utá ǀ vām ǀ vikṣú ǀ mádyāsu ǀ ándhaḥ ǀ gā́vaḥ ǀ ā́paḥ ǀ ca ǀ pīpayanta ǀ devī́ḥ ǀ
utó íti ǀ naḥ ǀ asyá ǀ pūrvyáḥ ǀ pátiḥ ǀ dán ǀ vītám ǀ pātám ǀ páyasaḥ ǀ usríyāyāḥ ǁuta ǀ vām ǀ vikṣu ǀ madyāsu ǀ andhaḥ ǀ gāvaḥ ǀ āpaḥ ǀ ca ǀ pīpayanta ǀ devīḥ ǀ
uto iti ǀ naḥ ǀ asya ǀ pūrvyaḥ ǀ patiḥ ǀ dan ǀ vītam ǀ pātam ǀ payasaḥ ǀ usriyāyāḥ ǁ1.153.4 Aṣṭaka 2.2.23.4Anuvāka 1.21.102
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.