Ṛgveda · Maṇḍala 1 · Sūkta 153
Ṛk 1.153.4
Saṃhitā
उ॒त वां॑ वि॒क्षु मद्या॒स्वंधो॒ गाव॒ आप॑श्च पीपयंत दे॒वीः ।
उ॒तो नो॑ अ॒स्य पू॒र्व्यः पति॒र्दन्वी॒तं पा॒तं पय॑स उ॒स्रिया॑याः ॥
उत वां विक्षु मद्यास्व् अन्धो गाव आपश् च पीपयन्त देवीः |
उतो नो अस्य पूर्व्यः पतिर् दन् वीतम् पातम् पयस उस्रियायाः ||
utá vām vikṣú mádyāsvándho gā́va ā́paśca pīpayanta devī́ḥ ǀ
utó no asyá pūrvyáḥ pátirdánvītám pātám páyasa usríyāyāḥ ǁ
uta vāṃ vikṣu madyāsv andho gāva āpaś ca pīpayanta devīḥ |
uto no asya pūrvyaḥ patir dan vītam pātam payasa usriyāyāḥ ||
Padapāṭha
उ॒त । वा॒म् । वि॒क्षु । मद्या॑सु । अन्धः॑ । गावः॑ । आपः॑ । च॒ । पी॒प॒य॒न्त॒ । दे॒वीः ।
उ॒तो इति॑ । नः॒ । अ॒स्य । पू॒र्व्यः । पतिः॑ । दन् । वी॒तम् । पा॒तम् । पय॑सः । उ॒स्रिया॑याः ॥
उत । वाम् । विक्षु । मद्यासु । अन्धः । गावः । आपः । च । पीपयन्त । देवीः ।
उतो इति । नः । अस्य । पूर्व्यः । पतिः । दन् । वीतम् । पातम् । पयसः । उस्रियायाः ॥
utá ǀ vām ǀ vikṣú ǀ mádyāsu ǀ ándhaḥ ǀ gā́vaḥ ǀ ā́paḥ ǀ ca ǀ pīpayanta ǀ devī́ḥ ǀ
utó íti ǀ naḥ ǀ asyá ǀ pūrvyáḥ ǀ pátiḥ ǀ dán ǀ vītám ǀ pātám ǀ páyasaḥ ǀ usríyāyāḥ ǁ
uta ǀ vām ǀ vikṣu ǀ madyāsu ǀ andhaḥ ǀ gāvaḥ ǀ āpaḥ ǀ ca ǀ pīpayanta ǀ devīḥ ǀ
uto iti ǀ naḥ ǀ asya ǀ pūrvyaḥ ǀ patiḥ ǀ dan ǀ vītam ǀ pātam ǀ payasaḥ ǀ usriyāyāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.153.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.23.04
- Maṇḍala · Anuvāka · Ṛk
- 1.21.102
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.