Ṛk 1.62.3
Saṃhitā
इंद्र॒स्यांगि॑रसां चे॒ष्टौ वि॒दत्स॒रमा॒ तन॑याय धा॒सिं ।
बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः समु॒स्रिया॑भिर्वावशंत॒ नरः॑ ॥
इन्द्रस्याङ्गिरसां चेष्टौ विदत् सरमा तनयाय धासिम् |
बृहस्पतिर् भिनद् अद्रिं विदद् गाः सम् उस्रियाभिर् वावशन्त नरः ||
índrasyā́ṅgirasām ceṣṭáu vidátsarámā tánayāya dhāsím ǀ
bṛ́haspátirbhinádádrim vidádgā́ḥ sámusríyābhirvāvaśanta náraḥ ǁ
indrasyāṅgirasāṃ ceṣṭau vidat saramā tanayāya dhāsim |
bṛhaspatir bhinad adriṃ vidad gāḥ sam usriyābhir vāvaśanta naraḥ ||
Padapāṭha
इन्द्र॑स्य । अङ्गि॑रसाम् । च॒ । इ॒ष्टौ । वि॒दत् । स॒रमा॑ । तन॑याय । धा॒सिम् ।
बृह॒स्पतिः॑ । भि॒नत् । अद्रि॑म् । वि॒दत् । गाः । सम् । उ॒स्रिया॑भिः । वा॒व॒श॒न्त॒ । नरः॑ ॥
इन्द्रस्य । अङ्गिरसाम् । च । इष्टौ । विदत् । सरमा । तनयाय । धासिम् ।
बृहस्पतिः । भिनत् । अद्रिम् । विदत् । गाः । सम् । उस्रियाभिः । वावशन्त । नरः ॥
índrasya ǀ áṅgirasām ǀ ca ǀ iṣṭáu ǀ vidát ǀ sarámā ǀ tánayāya ǀ dhāsím ǀ
bṛ́haspátiḥ ǀ bhinát ǀ ádrim ǀ vidát ǀ gā́ḥ ǀ sám ǀ usríyābhiḥ ǀ vāvaśanta ǀ náraḥ ǁ
indrasya ǀ aṅgirasām ǀ ca ǀ iṣṭau ǀ vidat ǀ saramā ǀ tanayāya ǀ dhāsim ǀ
bṛhaspatiḥ ǀ bhinat ǀ adrim ǀ vidat ǀ gāḥ ǀ sam ǀ usriyābhiḥ ǀ vāvaśanta ǀ naraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.062.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.01.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.