Ṛgveda · Maṇḍala 1 · Sūkta 113
Ṛk 1.113.5
Saṃhitā
जि॒ह्म॒श्ये॒३॒॑ चरि॑तवे म॒घोन्या॑भो॒गय॑ इ॒ष्टये॑ रा॒य उ॑ त्वं ।
द॒भ्रं पश्य॑द्भ्य उर्वि॒या वि॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥
जिह्मश्ये चरितवे मघोन्य् आभोगय इष्टये राय उ त्वम् |
दभ्रम् पश्यद्भ्य उर्विया विचक्ष उषा अजीगर् भुवनानि विश्वा ||
jihmaśyé cáritave maghónyābhogáya iṣṭáye rāyá u tvam ǀ
dabhrám páśyadbhya urviyā́ vicákṣa uṣā́ ajīgarbhúvanāni víśvā ǁ
jihmaśye caritave maghony ābhogaya iṣṭaye rāya u tvam |
dabhram paśyadbhya urviyā vicakṣa uṣā ajīgar bhuvanāni viśvā ||
Padapāṭha
जि॒ह्म॒ऽश्ये॑ । चरि॑तवे । म॒घोनी॑ । आ॒ऽभो॒गये॑ । इ॒ष्टये॑ । रा॒ये । ऊं॒ इति॑ । त्व॒म् ।
द॒भ्रम् । पश्य॑त्ऽभ्यः । उ॒र्वि॒या । वि॒ऽचक्षे॑ । उ॒षाः । अ॒जी॒गः॒ । भुव॑नानि । विश्वा॑ ॥
जिह्मऽश्ये । चरितवे । मघोनी । आऽभोगये । इष्टये । राये । ऊं इति । त्वम् ।
दभ्रम् । पश्यत्ऽभ्यः । उर्विया । विऽचक्षे । उषाः । अजीगः । भुवनानि । विश्वा ॥
jihma-śyé ǀ cáritave ǀ maghónī ǀ ā-bhogáye ǀ iṣṭáye ǀ rāyé ǀ ūṃ íti ǀ tvam ǀ
dabhrám ǀ páśyat-bhyaḥ ǀ urviyā́ ǀ vi-cákṣe ǀ uṣā́ḥ ǀ ajīgaḥ ǀ bhúvanāni ǀ víśvā ǁ
jihma-śye ǀ caritave ǀ maghonī ǀ ā-bhogaye ǀ iṣṭaye ǀ rāye ǀ ūṃ iti ǀ tvam ǀ
dabhram ǀ paśyat-bhyaḥ ǀ urviyā ǀ vi-cakṣe ǀ uṣāḥ ǀ ajīgaḥ ǀ bhuvanāni ǀ viśvā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.113.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.01.00
- Devatā देवता
- 1: Uṣas (Ab); Uṣas And Rātri (Cd); 2-20: Uṣas
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.