Ṛk 1.9.8
Saṃhitā
अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मं ।
इंद्र॒ ता र॒थिनी॒रिषः॑ ॥
अस्मे धेहि श्रवो बृहद् द्युम्नं सहस्रसातमम् |
इन्द्र ता रथिनीर् इषः ||
asmé dhehi śrávo bṛháddyumnám sahasrasā́tamam ǀ
índra tā́ rathínīríṣaḥ ǁ
asme dhehi śravo bṛhad dyumnaṃ sahasrasātamam |
indra tā rathinīr iṣaḥ ||
Padapāṭha
अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत् । द्यु॒म्नम् । स॒ह॒स्र॒ऽसात॑मम् ।
इन्द्र॑ । ताः । र॒थिनीः॑ । इषः॑ ॥
अस्मे इति । धेहि । श्रवः । बृहत् । द्युम्नम् । सहस्रऽसातमम् ।
इन्द्र । ताः । रथिनीः । इषः ॥
asmé íti ǀ dhehi ǀ śrávaḥ ǀ bṛhát ǀ dyumnám ǀ sahasra-sā́tamam ǀ
índra ǀ tā́ḥ ǀ rathínīḥ ǀ íṣaḥ ǁ
asme iti ǀ dhehi ǀ śravaḥ ǀ bṛhat ǀ dyumnam ǀ sahasra-sātamam ǀ
indra ǀ tāḥ ǀ rathinīḥ ǀ iṣaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.009.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.1.18.03
- Maṇḍala · Anuvāka · Ṛk
- 01.03.018
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Madhucchandas Vaiśvāmitra
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.