Ṛgveda · Maṇḍala 1 · Sūkta 70

Ṛk 1.70.10

Agni · Parāśara Śāktya

The whole sūkta Link

Saṃhitā

वि त्वा॒ नरः॑ पुरु॒त्रा स॑पर्यन्पि॒तुर्न जिव्रे॒र्वि वेदो॑ भरंत ॥

वि त्वा नरः पुरुत्रा सपर्यन् पितुर् न जिव्रेर् वि वेदो भरन्त ||

ví tvā náraḥ purutrā́ saparyanpitúrná jívrerví védo bharanta ǁ

vi tvā naraḥ purutrā saparyan pitur na jivrer vi vedo bharanta ||

Padapāṭha

वि । त्वा॒ । नरः॑ । पु॒रु॒ऽत्रा । स॒प॒र्य॒न् । पि॒तुः । न । जिव्रेः॑ । वि । वेदी॑ । भ॒र॒न्त॒ ॥

वि । त्वा । नरः । पुरुऽत्रा । सपर्यन् । पितुः । न । जिव्रेः । वि । वेदी । भरन्त ॥

ví ǀ tvā ǀ náraḥ ǀ puru-trā́ ǀ saparyan ǀ pitúḥ ǀ ná ǀ jívreḥ ǀ ví ǀ védī ǀ bharanta ǁ

vi ǀ tvā ǀ naraḥ ǀ puru-trā ǀ saparyan ǀ pituḥ ǀ na ǀ jivreḥ ǀ vi ǀ vedī ǀ bharanta ǁ

References

Maṇḍala · Sūkta · Ṛk
01.070.10
Aṣṭaka · Adhyāya · Varga · Ṛk
1.5.14.10
Maṇḍala · Anuvāka · Ṛk
1.12.060
Devatā देवता
Agni
Ṛṣi ऋषि
Parāśara Śāktya
Chandas छन्दस्
Dvipadā Virāj
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.70.10

Interpretations

Sāyaṇa

हे अग्ने त्वं वनेषु वननीयेषु संभजनीयेषु गोष्वस्मदीयेषु पशुषु प्रशस्तिं पशंसां धिषे । दधिषे । स्थापयसि । अस्माकं प्रशस्ता गवादिपशवो भवंत्वित्यर्थः । विश्वे सर्वे जना नोऽस्मभ्यं स्वः सुष्ठ्वरणीयं बलिमुपायनरूपं धनं भरंत । आहरंतु । हे अग्ने त्वा त्वां नरो मनुष्याः पुरुत्रा बहुषु देवयजनदेशेषु वि सपर्यन् । विविधं पूजयंति । पूजयित्वा च वेदो धनं वि भरंत । त्वत्तो विशेषेण हरंति । गृण्हंतीत्यर्थः । तत्र दृष्टांतः । जिव्रेर्जीर्णाद्वृद्धात्पितुर्न पितुरिव । यथा पुत्रा वृद्धात्पितुः सकाशाद्धनं हरंति तद्वत् ॥ धिषे । छांदसो वर्तमाने लिट् । द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यं । का ६-१-८-१ । इति द्विर्वचनाभावः । भरंत । हृञ् हरणे । केवलोऽपि सोपसर्गार्थो द्रष्टव्यः । छांदसोलङ् । हृग्रहोर्भ इति भत्वं । पुरुत्रा । देवमनुष्यपुरुषपुरुमर्त्येत्यादिना सप्तम्यर्थे त्राप्रत्ययः । जिव्रेः । जृष् वयोहानौ । जृशृस्तृजागृभ्यः क्विन् । उ ४-५४ । ऋूत इद्धातोरितीत्वं । उणादयोऽव्युत्पन्नानि प्रातिपदिकानीति जिव्रिः किर्योर्गिर्योरित्येवमादिषु दीर्घो न भवति । का ८-२-७८ । इत्युक्तत्वात् हलि चेति दीर्घस्याभावः । रेफवकारयोर्विपर्ययः । उक्तं च । वर्णागमो वर्णविपर्ययश्च । का ६-३-१०९ । इति । नित्त्वादाद्युदात्तत्वं । वेद इति धननाम । विद्यते लभ्यत इति वेदः । विद्लृलाभे । कर्मण्यसुन् ॥ ९ ॥ १० ॥