Ṛgveda · Maṇḍala 1 · Sūkta 136
Ṛk 1.136.1
Saṃhitā
प्र सु ज्येष्ठं॑ निचि॒राभ्यां॑ बृ॒हन्नमो॑ ह॒व्यं म॒तिं भ॑रता मृळ॒यद्भ्यां॒ स्वादि॑ष्ठं मृळ॒यद्भ्यां॑ ।
ता स॒म्राजा॑ घृ॒तासु॑ती य॒ज्ञेय॑ज्ञ॒ उप॑स्तुता ।
अथै॑नोः क्ष॒त्रं न कुत॑श्च॒नाधृषे॑ देव॒त्वं नू चि॑दा॒धृषे॑ ॥
प्र सु ज्येष्ठं निचिराभ्याम् बृहन् नमो हव्यम् मतिम् भरता मृऌअयद्भ्यां स्वादिष्ठम् मृऌअयद्भ्याम् |
ता सम्राजा घृतासुती यज्ञे-यज्ञ उपस्तुता |
अथैनोः क्षत्रं न कुतश् चनाधृषे देवत्वं नू चिद् आधृषे ||
prá sú jyéṣṭham nicirā́bhyām bṛhánnámo havyám matím bharatā mṛḷayádbhyām svā́diṣṭham mṛḷayádbhyām ǀ
tā́ samrā́jā ghṛtā́sutī yajñéyajña úpastutā ǀ
áthainoḥ kṣatrám ná kútaścanā́dhṛ́ṣe devatvám nū́ cidādhṛ́ṣe ǁ
pra su jyeṣṭhaṃ nicirābhyām bṛhan namo havyam matim bharatā mṛḷayadbhyāṃ svādiṣṭham mṛḷayadbhyām |
tā samrājā ghṛtāsutī yajñe-yajña upastutā |
athainoḥ kṣatraṃ na kutaś canādhṛṣe devatvaṃ nū cid ādhṛṣe ||
Padapāṭha
प्र । सु । ज्येष्ठ॑म् । नि॒ऽचि॒राभ्या॑म् । बृ॒हत् । नमः॑ । ह॒व्यम् । म॒तिम् । भ॒र॒त॒ । मृ॒ळ॒यत्ऽभ्या॑म् । स्वादि॑ष्ठम् । मृ॒ळ॒यत्ऽभ्या॑म् ।
ता । स॒म्ऽराजा॑ । घृ॒तासु॑ती॒ इति॑ घृ॒तऽआ॑सुती । य॒ज्ञेऽय॑ज्ञे । उप॑ऽस्तुता ।
अथ॑ । ए॒नोः॒ । क्ष॒त्रम् । न । कुतः॑ । च॒न । आ॒ऽधृषे॑ । दे॒व॒ऽत्वम् । नु । चि॒त् । आ॒ऽधृषे॑ ॥
प्र । सु । ज्येष्ठम् । निऽचिराभ्याम् । बृहत् । नमः । हव्यम् । मतिम् । भरत । मृळयत्ऽभ्याम् । स्वादिष्ठम् । मृळयत्ऽभ्याम् ।
ता । सम्ऽराजा । घृतासुती इति घृतऽआसुती । यज्ञेऽयज्ञे । उपऽस्तुता ।
अथ । एनोः । क्षत्रम् । न । कुतः । चन । आऽधृषे । देवऽत्वम् । नु । चित् । आऽधृषे ॥
prá ǀ sú ǀ jyéṣṭham ǀ ni-cirā́bhyām ǀ bṛhát ǀ námaḥ ǀ havyám ǀ matím ǀ bharata ǀ mṛḷayát-bhyām ǀ svā́diṣṭham ǀ mṛḷayát-bhyām ǀ
tā́ ǀ sam-rā́jā ǀ ghṛtā́sutī íti ghṛtá-āsutī ǀ yajñé-yajñe ǀ úpa-stutā ǀ
átha ǀ enoḥ ǀ kṣatrám ǀ ná ǀ kútaḥ ǀ caná ǀ ā-dhṛ́ṣe ǀ deva-tvám ǀ nú ǀ cit ǀ ā-dhṛ́ṣe ǁ
pra ǀ su ǀ jyeṣṭham ǀ ni-cirābhyām ǀ bṛhat ǀ namaḥ ǀ havyam ǀ matim ǀ bharata ǀ mṛḷayat-bhyām ǀ svādiṣṭham ǀ mṛḷayat-bhyām ǀ
tā ǀ sam-rājā ǀ ghṛtāsutī iti ghṛta-āsutī ǀ yajñe-yajñe ǀ upa-stutā ǀ
atha ǀ enoḥ ǀ kṣatram ǀ na ǀ kutaḥ ǀ cana ǀ ā-dhṛṣe ǀ deva-tvam ǀ nu ǀ cit ǀ ā-dhṛṣe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.136.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.26.01
- Maṇḍala · Anuvāka · Ṛk
- 1.20.016
- Devatā देवता
- 1-5: Mitra, Varuṇa; 6: Mitra, Varuṇa, Indra, Agni, Aryaman, Bhaga; 7: Agni, Mitra, Varuṇa
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Triṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.