Ṛgveda · Maṇḍala 1 · Sūkta 136
Ṛk 1.136.2
Saṃhitā
अद॑र्शि गा॒तुरु॒रवे॒ वरी॑यसी॒ पंथा॑ ऋ॒तस्य॒ सम॑यंस्त र॒श्मिभि॒श्चक्षु॒र्भग॑स्य र॒श्मिभिः॑ ।
द्यु॒क्षं मि॒त्रस्य॒ साद॑नमर्य॒म्णो वरु॑णस्य च ।
अथा॑ दधाते बृ॒हदु॒क्थ्यं१॒॑ वय॑ उप॒स्तुत्यं॑ बृ॒हद्वयः॑ ॥
अदर्शि गातुर् उरवे वरीयसी पन्था ऋतस्य सम् अयंस्त रश्मिभिश् चक्षुर् भगस्य रश्मिभिः |
द्युक्षम् मित्रस्य सादनम् अर्यम्णो वरुणस्य च |
अथा दधाते बृहद् उक्थ्यं वय उपस्तुत्यम् बृहद् वयः ||
ádarśi gātúruráve várīyasī pánthā ṛtásya sámayaṃsta raśmíbhiścákṣurbhágasya raśmíbhiḥ ǀ
dyukṣám mitrásya sā́danamaryamṇó váruṇasya ca ǀ
áthā dadhāte bṛhádukthyám váya upastútyam bṛhádváyaḥ ǁ
adarśi gātur urave varīyasī panthā ṛtasya sam ayaṃsta raśmibhiś cakṣur bhagasya raśmibhiḥ |
dyukṣam mitrasya sādanam aryamṇo varuṇasya ca |
athā dadhāte bṛhad ukthyaṃ vaya upastutyam bṛhad vayaḥ ||
Padapāṭha
अद॑र्शि । गा॒तुः । उ॒रवे॑ । वरी॑यसी । पन्थाः॑ । ऋ॒तस्य॑ । सम् । अ॒यं॒स्त॒ । र॒श्मिऽभिः॑ । चक्षुः॑ । भग॑स्य । र॒श्मिऽभिः॑ ।
द्यु॒क्षम् । मि॒त्रस्य॑ । सद॑नम् । अ॒र्य॒म्णः । वरु॑णस्य । च॒ ।
अथ॑ । द॒धा॒ते॒ इति॑ । बृ॒हत् । उ॒क्थ्य॑म् । वयः॑ । उ॒प॒ऽस्तुत्य॑म् । बृ॒हत् । वयः॑ ॥
अदर्शि । गातुः । उरवे । वरीयसी । पन्थाः । ऋतस्य । सम् । अयंस्त । रश्मिऽभिः । चक्षुः । भगस्य । रश्मिऽभिः ।
द्युक्षम् । मित्रस्य । सदनम् । अर्यम्णः । वरुणस्य । च ।
अथ । दधाते इति । बृहत् । उक्थ्यम् । वयः । उपऽस्तुत्यम् । बृहत् । वयः ॥
ádarśi ǀ gātúḥ ǀ uráve ǀ várīyasī ǀ pánthāḥ ǀ ṛtásya ǀ sám ǀ ayaṃsta ǀ raśmí-bhiḥ ǀ cákṣuḥ ǀ bhágasya ǀ raśmí-bhiḥ ǀ
dyukṣám ǀ mitrásya ǀ sádanam ǀ aryamṇáḥ ǀ váruṇasya ǀ ca ǀ
átha ǀ dadhāte íti ǀ bṛhát ǀ ukthyám ǀ váyaḥ ǀ upa-stútyam ǀ bṛhát ǀ váyaḥ ǁ
adarśi ǀ gātuḥ ǀ urave ǀ varīyasī ǀ panthāḥ ǀ ṛtasya ǀ sam ǀ ayaṃsta ǀ raśmi-bhiḥ ǀ cakṣuḥ ǀ bhagasya ǀ raśmi-bhiḥ ǀ
dyukṣam ǀ mitrasya ǀ sadanam ǀ aryamṇaḥ ǀ varuṇasya ǀ ca ǀ
atha ǀ dadhāte iti ǀ bṛhat ǀ ukthyam ǀ vayaḥ ǀ upa-stutyam ǀ bṛhat ǀ vayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.136.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.26.02
- Maṇḍala · Anuvāka · Ṛk
- 1.20.017
- Devatā देवता
- 1-5: Mitra, Varuṇa; 6: Mitra, Varuṇa, Indra, Agni, Aryaman, Bhaga; 7: Agni, Mitra, Varuṇa
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Triṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.