Ṛgveda · Maṇḍala 1 · Sūkta 122
Ṛk 1.122.6
Saṃhitā
श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मोत श्रु॑तं॒ सद॑ने वि॒श्वतः॑ सीं ।
श्रोतु॑ नः॒ श्रोतु॑रातिः सु॒श्रोतुः॑ सु॒क्षेत्रा॒ सिंधु॑र॒द्भिः ॥
श्रुतम् मे मित्रावरुणा हवेमोत श्रुतं सदने विश्वतः सीम् |
श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुर् अद्भिः ||
śrutám me mitrāvaruṇā hávemótá śrutam sádane viśvátaḥ sīm ǀ
śrótu naḥ śróturātiḥ suśrótuḥ sukṣétrā síndhuradbhíḥ ǁ
śrutam me mitrāvaruṇā havemota śrutaṃ sadane viśvataḥ sīm |
śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhur adbhiḥ ||
Padapāṭha
श्रु॒तम् । मे॒ । मि॒त्रा॒व॒रु॒णा॒ । हवा॑ । इ॒मा । उ॒त । श्रु॒त॒म् । सद॑ने । वि॒श्वतः॑ । सी॒म् ।
श्रोतु॑ । नः॒ । श्रोतु॑ऽरातिः । सु॒ऽश्रोतुः॑ । सु॒ऽक्षेत्रा॑ । सिन्धुः॑ । अ॒त्ऽभिः ॥
श्रुतम् । मे । मित्रावरुणा । हवा । इमा । उत । श्रुतम् । सदने । विश्वतः । सीम् ।
श्रोतु । नः । श्रोतुऽरातिः । सुऽश्रोतुः । सुऽक्षेत्रा । सिन्धुः । अत्ऽभिः ॥
śrutám ǀ me ǀ mitrāvaruṇā ǀ hávā ǀ imā́ ǀ utá ǀ śrutam ǀ sádane ǀ viśvátaḥ ǀ sīm ǀ
śrótu ǀ naḥ ǀ śrótu-rātiḥ ǀ su-śrótuḥ ǀ su-kṣétrā ǀ síndhuḥ ǀ at-bhíḥ ǁ
śrutam ǀ me ǀ mitrāvaruṇā ǀ havā ǀ imā ǀ uta ǀ śrutam ǀ sadane ǀ viśvataḥ ǀ sīm ǀ
śrotu ǀ naḥ ǀ śrotu-rātiḥ ǀ su-śrotuḥ ǀ su-kṣetrā ǀ sindhuḥ ǀ at-bhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.122.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.02.00
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh, Virāḍrūpā
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.