Ṛk 1.50.13
Saṃhitā
उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ सह॑सा स॒ह ।
द्वि॒षंतं॒ मह्यं॑ रं॒धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धं ॥
उद् अगाद् अयम् आदित्यो विश्वेन सहसा सह |
द्विषन्तम् मह्यं रन्धयन् मो अहं द्विषते रधम् ||
údagādayámādityó víśvena sáhasā sahá ǀ
dviṣántam máhyam randháyanmó ahám dviṣaté radham ǁ
ud agād ayam ādityo viśvena sahasā saha |
dviṣantam mahyaṃ randhayan mo ahaṃ dviṣate radham ||
Padapāṭha
उत् । अ॒गा॒त् । अ॒यम् । आ॒दि॒त्यः । विश्वे॑न । सह॑सा । स॒ह ।
द्वि॒षन्त॑म् । मह्य॑म् । र॒न्धय॑न् । मो इति॑ । अ॒हम् । द्वि॒ष॒ते । र॒ध॒म् ॥
उत् । अगात् । अयम् । आदित्यः । विश्वेन । सहसा । सह ।
द्विषन्तम् । मह्यम् । रन्धयन् । मो इति । अहम् । द्विषते । रधम् ॥
út ǀ agāt ǀ ayám ǀ ādityáḥ ǀ víśvena ǀ sáhasā ǀ sahá ǀ
dviṣántam ǀ máhyam ǀ randháyan ǀ mó íti ǀ ahám ǀ dviṣaté ǀ radham ǁ
ut ǀ agāt ǀ ayam ǀ ādityaḥ ǀ viśvena ǀ sahasā ǀ saha ǀ
dviṣantam ǀ mahyam ǀ randhayan ǀ mo iti ǀ aham ǀ dviṣate ǀ radham ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.050.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.08.08
- Maṇḍala · Anuvāka · Ṛk
- 01.09.082
- Devatā देवता
- Sūrya
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.