Ṛk 1.93.3
Saṃhitā
अग्नी॑षोमा॒ य आहु॑तिं॒ यो वां॒ दाशा॑द्ध॒विष्कृ॑तिं ।
स प्र॒जया॑ सु॒वीर्यं॒ विश्व॒मायु॒र्व्य॑श्नवत् ॥
अग्नीषोमा य आहुतिं यो वां दाशाद् धविष्कृतिम् |
स प्रजया सुवीर्यं विश्वम् आयुर् व्य् अश्नवत् ||
ágnīṣomā yá ā́hutim yó vām dā́śāddhavíṣkṛtim ǀ
sá prajáyā suvī́ryam víśvamā́yurvyáśnavat ǁ
agnīṣomā ya āhutiṃ yo vāṃ dāśād dhaviṣkṛtim |
sa prajayā suvīryaṃ viśvam āyur vy aśnavat ||
Padapāṭha
अग्नी॑षोमा । यः । आऽहु॑तिम् । यः । वा॒म् । दाशा॑त् । ह॒विःऽकृ॑तिम् ।
सः । प्र॒ऽजया॑ । सु॒ऽवीर्य॑म् । विश्व॑म् । आयुः॑ । वि । अ॒श्न॒व॒त् ॥
अग्नीषोमा । यः । आऽहुतिम् । यः । वाम् । दाशात् । हविःऽकृतिम् ।
सः । प्रऽजया । सुऽवीर्यम् । विश्वम् । आयुः । वि । अश्नवत् ॥
ágnīṣomā ǀ yáḥ ǀ ā́-hutim ǀ yáḥ ǀ vām ǀ dā́śāt ǀ havíḥ-kṛtim ǀ
sáḥ ǀ pra-jáyā ǀ su-vī́ryam ǀ víśvam ǀ ā́yuḥ ǀ ví ǀ aśnavat ǁ
agnīṣomā ǀ yaḥ ǀ ā-hutim ǀ yaḥ ǀ vām ǀ dāśāt ǀ haviḥ-kṛtim ǀ
saḥ ǀ pra-jayā ǀ su-vīryam ǀ viśvam ǀ āyuḥ ǀ vi ǀ aśnavat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.093.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.28.03
- Maṇḍala · Anuvāka · Ṛk
- 1.14.097
- Devatā देवता
- Agni, Soma
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh, Gāyatrī, Jagatī Or Triṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.