Ṛgveda · Maṇḍala 1 · Sūkta 175

Ṛk 1.175.6

Indra · Agastya Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इंद्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ ।
तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ |
ताम् अनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ||

yáthā pū́rvebhyo jaritṛ́bhya indra máya ivā́po ná tṛ́ṣyate babhū́tha ǀ
tā́mánu tvā nivídam johavīmi vidyā́meṣám vṛjánam jīrádānum ǁ

yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha |
tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum ||

Padapāṭha

यथा॑ । पूर्वे॑भ्यः । ज॒रि॒तृऽभ्यः॑ । इ॒न्द्र॒ । मयः॑ऽइव । आपः॑ । न । तृष्य॑ते । ब॒भूथ॑ ।
ताम् । अनु॑ । त्वा॒ । नि॒ऽविद॑म् । जो॒ह॒वी॒मि॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

यथा । पूर्वेभ्यः । जरितृऽभ्यः । इन्द्र । मयःऽइव । आपः । न । तृष्यते । बभूथ ।
ताम् । अनु । त्वा । निऽविदम् । जोहवीमि । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

yáthā ǀ pū́rvebhyaḥ ǀ jaritṛ́-bhyaḥ ǀ indra ǀ máyaḥ-iva ǀ ā́paḥ ǀ ná ǀ tṛ́ṣyate ǀ babhū́tha ǀ
tā́m ǀ ánu ǀ tvā ǀ ni-vídam ǀ johavīmi ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

yathā ǀ pūrvebhyaḥ ǀ jaritṛ-bhyaḥ ǀ indra ǀ mayaḥ-iva ǀ āpaḥ ǀ na ǀ tṛṣyate ǀ babhūtha ǀ
tām ǀ anu ǀ tvā ǀ ni-vidam ǀ johavīmi ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

References

Maṇḍala · Sūkta · Ṛk
01.175.06
Aṣṭaka · Adhyāya · Varga · Ṛk
2.4.18.06
Maṇḍala · Anuvāka · Ṛk
1.23.102
Devatā देवता
Indra
Ṛṣi ऋषि
Agastya Maitrāvaruṇi
Chandas छन्दस्
Anuṣṭubh, Skandhogrīvī, Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.175.6

Interpretations

Sāyaṇa

मत्सिनइतिषळृचंद्वादशंसूक्तं आगस्त्यमैन्द्रमानुष्टुभं पूर्ववतुशब्दात् त्रिष्टुबन्तंत्वित्युक्तत्वात् अ- न्त्यात्रिष्टुप् मत्सिनइत्यनुक्रान्तम् विशेषविनियोगोलैङ्गिकः ।