Ṛgveda · Maṇḍala 1 · Sūkta 102
Ṛk 1.102.7
Saṃhitā
उत्ते॑ श॒तान्म॑घव॒न्नुच्च॒ भूय॑स॒ उत्स॒हस्रा॑द्रिरिचे कृ॒ष्टिषु॒ श्रवः॑ ।
अ॒मा॒त्रं त्वा॑ धि॒षणा॑ तित्विषे म॒ह्यधा॑ वृ॒त्राणि॑ जिघ्नसे पुरंदर ॥
उत् ते शतान् मघवन्न् उच् च भूयस उत् सहस्राद् रिरिचे कृष्टिषु श्रवः |
अमात्रं त्वा धिषणा तित्विषे मह्य् अधा वृत्राणि जिघ्नसे पुरन्दर ||
útte śatā́nmaghavannúcca bhū́yasa útsahásrādririce kṛṣṭíṣu śrávaḥ ǀ
amātrám tvā dhiṣáṇā titviṣe mahyádhā vṛtrā́ṇi jighnase puraṃdara ǁ
ut te śatān maghavann uc ca bhūyasa ut sahasrād ririce kṛṣṭiṣu śravaḥ |
amātraṃ tvā dhiṣaṇā titviṣe mahy adhā vṛtrāṇi jighnase purandara ||
Padapāṭha
उत् । ते॒ । श॒तात् । म॒घ॒ऽव॒न् । उत् । च॒ । भूय॑सः । उत् । स॒हस्रा॑त् । रि॒रि॒चे॒ । कृ॒ष्टिषु॑ । श्रवः॑ ।
अ॒मा॒त्रम् । त्वा॒ । धि॒षणा॑ । ति॒त्वि॒षे॒ । म॒ही । अध॑ । वृ॒त्राणि॑ । जि॒घ्न॒से॒ । पु॒र॒म्ऽद॒र॒ ॥
उत् । ते । शतात् । मघऽवन् । उत् । च । भूयसः । उत् । सहस्रात् । रिरिचे । कृष्टिषु । श्रवः ।
अमात्रम् । त्वा । धिषणा । तित्विषे । मही । अध । वृत्राणि । जिघ्नसे । पुरम्ऽदर ॥
út ǀ te ǀ śatā́t ǀ magha-van ǀ út ǀ ca ǀ bhū́yasaḥ ǀ út ǀ sahásrāt ǀ ririce ǀ kṛṣṭíṣu ǀ śrávaḥ ǀ
amātrám ǀ tvā ǀ dhiṣáṇā ǀ titviṣe ǀ mahī́ ǀ ádha ǀ vṛtrā́ṇi ǀ jighnase ǀ puram-dara ǁ
ut ǀ te ǀ śatāt ǀ magha-van ǀ ut ǀ ca ǀ bhūyasaḥ ǀ ut ǀ sahasrāt ǀ ririce ǀ kṛṣṭiṣu ǀ śravaḥ ǀ
amātram ǀ tvā ǀ dhiṣaṇā ǀ titviṣe ǀ mahī ǀ adha ǀ vṛtrāṇi ǀ jighnase ǀ puram-dara ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.102.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.15.02
- Maṇḍala · Anuvāka · Ṛk
- 1.15.085
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.