Ṛk 1.54.4
Saṃhitā
त्वं दि॒वो बृ॑ह॒तः सानु॑ कोप॒योऽव॒ त्मना॑ धृष॒ता शंब॑रं भिनत् ।
यन्मा॒यिनो॑ व्रं॒दिनो॑ मं॒दिना॑ धृ॒षच्छि॒तां गभ॑स्तिम॒शनिं॑ पृत॒न्यसि॑ ॥
त्वं दिवो बृहतः सानु कोपयो ऽव त्मना धृषता शम्बरम् भिनत् |
यन् मायिनो व्रन्दिनो मन्दिना धृषच् छितां गभस्तिम् अशनिम् पृतन्यसि ||
tvám divó bṛhatáḥ sā́nu kopayó’va tmánā dhṛṣatā́ śámbaram bhinat ǀ
yánmāyíno vrandíno mandínā dhṛṣácchitā́m gábhastimaśánim pṛtanyási ǁ
tvaṃ divo bṛhataḥ sānu kopayo 'va tmanā dhṛṣatā śambaram bhinat |
yan māyino vrandino mandinā dhṛṣac chitāṃ gabhastim aśanim pṛtanyasi ||
Padapāṭha
त्वम् । दि॒वः । बृ॒ह॒तः । सानु॑ । को॒प॒यः॒ । अव॑ । त्मना॑ । धृ॒ष॒ता । शम्ब॑रम् । भि॒न॒त् ।
यत् । मा॒यिनः॑ । व्र॒न्दिनः॑ । म॒न्दिना॑ । धृ॒षत् । शि॒ताम् । गभ॑स्तिम् । अ॒शनि॑म् । पृ॒त॒न्यसि॑ ॥
त्वम् । दिवः । बृहतः । सानु । कोपयः । अव । त्मना । धृषता । शम्बरम् । भिनत् ।
यत् । मायिनः । व्रन्दिनः । मन्दिना । धृषत् । शिताम् । गभस्तिम् । अशनिम् । पृतन्यसि ॥
tvám ǀ diváḥ ǀ bṛhatáḥ ǀ sā́nu ǀ kopayaḥ ǀ áva ǀ tmánā ǀ dhṛṣatā́ ǀ śámbaram ǀ bhinat ǀ
yát ǀ māyínaḥ ǀ vrandínaḥ ǀ mandínā ǀ dhṛṣát ǀ śitā́m ǀ gábhastim ǀ aśánim ǀ pṛtanyási ǁ
tvam ǀ divaḥ ǀ bṛhataḥ ǀ sānu ǀ kopayaḥ ǀ ava ǀ tmanā ǀ dhṛṣatā ǀ śambaram ǀ bhinat ǀ
yat ǀ māyinaḥ ǀ vrandinaḥ ǀ mandinā ǀ dhṛṣat ǀ śitām ǀ gabhastim ǀ aśanim ǀ pṛtanyasi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.054.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.17.04
- Maṇḍala · Anuvāka · Ṛk
- 1.10.045
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Savya Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.