Ṛk 1.24.6
Saṃhitā
न॒हि ते॑ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तयं॑त आ॒पुः ।
नेमा आपो॑ अनिमि॒षं चरं॑ती॒र्न ये वात॑स्य प्रमि॒नंत्यभ्वं॑ ॥
नहि ते क्षत्रं न सहो न मन्युं वयश् चनामी पतयन्त आपुः |
नेमा आपो अनिमिषं चरन्तीर् न ये वातस्य प्रमिनन्त्य् अभ्वम् ||
nahí te kṣatrám ná sáho ná manyúm váyaścanā́mī́ patáyanta āpúḥ ǀ
némā́ ā́po animiṣám cárantīrná yé vā́tasya praminántyábhvam ǁ
nahi te kṣatraṃ na saho na manyuṃ vayaś canāmī patayanta āpuḥ |
nemā āpo animiṣaṃ carantīr na ye vātasya praminanty abhvam ||
Padapāṭha
न॒हि । ते॒ । क्ष॒त्रम् । न । सहः॑ । न । म॒न्युम् । वयः॑ । च॒न । अ॒मी इति॑ । प॒तय॑न्तः । आ॒पुः ।
न । इ॒माः । आपः॑ । अ॒नि॒ऽमि॒षम् । चर॑न्तीः । न । ये । वात॑स्य । प्र॒ऽमि॒नन्ति॑ । अभ्व॑म् ॥
नहि । ते । क्षत्रम् । न । सहः । न । मन्युम् । वयः । चन । अमी इति । पतयन्तः । आपुः ।
न । इमाः । आपः । अनिऽमिषम् । चरन्तीः । न । ये । वातस्य । प्रऽमिनन्ति । अभ्वम् ॥
nahí ǀ te ǀ kṣatrám ǀ ná ǀ sáhaḥ ǀ ná ǀ manyúm ǀ váyaḥ ǀ caná ǀ amī́ íti ǀ patáyantaḥ ǀ āpúḥ ǀ
ná ǀ imā́ḥ ǀ ā́paḥ ǀ ani-miṣám ǀ cárantīḥ ǀ ná ǀ yé ǀ vā́tasya ǀ pra-minánti ǀ ábhvam ǁ
nahi ǀ te ǀ kṣatram ǀ na ǀ sahaḥ ǀ na ǀ manyum ǀ vayaḥ ǀ cana ǀ amī iti ǀ patayantaḥ ǀ āpuḥ ǀ
na ǀ imāḥ ǀ āpaḥ ǀ ani-miṣam ǀ carantīḥ ǀ na ǀ ye ǀ vātasya ǀ pra-minanti ǀ abhvam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.024.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.14.01
- Maṇḍala · Anuvāka · Ṛk
- 01.06.006
- Devatā देवता
- 1: Prajāpati; 2: Agni; 3-5: Savitṛ; 6-15: Varuṇa
- Ṛṣi ऋषि
- Śunaḥśepa Ājīgarti
- Chandas छन्दस्
- Triṣṭubh, Gāyatrī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.