Ṛk 1.24.13
Saṃhitā
शुनः॒शेपो॒ ह्यह्व॑द्गृभी॒तस्त्रि॒ष्वा॑दि॒त्यं द्रु॑प॒देषु॑ ब॒द्धः ।
अवै॑नं॒ राजा॒ वरु॑णः ससृज्याद्वि॒द्वाँ अद॑ब्धो॒ वि मु॑मोक्तु॒ पाशा॑न् ॥
शुनःशेपो ह्य् अह्वद् गृभीतस् त्रिष्व् आदित्यं द्रुपदेषु बद्धः |
अवैनं राजा वरुणः ससृज्याद् विद्वां अदब्धो वि मुमोक्तु पाशान् ||
śúnaḥśépo hyáhvadgṛbhītástriṣvā́dityám drupadéṣu baddháḥ ǀ
ávainam rā́jā váruṇaḥ sasṛjyādvidvā́m̐ ádabdho ví mumoktu pā́śān ǁ
śunaḥśepo hy ahvad gṛbhītas triṣv ādityaṃ drupadeṣu baddhaḥ |
avainaṃ rājā varuṇaḥ sasṛjyād vidvāṃ adabdho vi mumoktu pāśān ||
Padapāṭha
शुनः॒शेपः॑ । हि । अह्व॑त् । गृ॒भी॒तः । त्रि॒षु । आ॒दि॒त्यम् । द्रु॒ऽप॒देषु॑ । ब॒द्धः ।
अव॑ । ए॒न॒म् । राजा॑ । वरु॑णः । स॒सृ॒ज्या॒त् । वि॒द्वान् । अद॑ब्धः । वि । मु॒मो॒क्तु॒ । पाशा॑न् ॥
शुनःशेपः । हि । अह्वत् । गृभीतः । त्रिषु । आदित्यम् । द्रुऽपदेषु । बद्धः ।
अव । एनम् । राजा । वरुणः । ससृज्यात् । विद्वान् । अदब्धः । वि । मुमोक्तु । पाशान् ॥
śúnaḥśépaḥ ǀ hí ǀ áhvat ǀ gṛbhītáḥ ǀ triṣú ǀ ādityám ǀ dru-padéṣu ǀ baddháḥ ǀ
áva ǀ enam ǀ rā́jā ǀ váruṇaḥ ǀ sasṛjyāt ǀ vidvā́n ǀ ádabdhaḥ ǀ ví ǀ mumoktu ǀ pā́śān ǁ
śunaḥśepaḥ ǀ hi ǀ ahvat ǀ gṛbhītaḥ ǀ triṣu ǀ ādityam ǀ dru-padeṣu ǀ baddhaḥ ǀ
ava ǀ enam ǀ rājā ǀ varuṇaḥ ǀ sasṛjyāt ǀ vidvān ǀ adabdhaḥ ǀ vi ǀ mumoktu ǀ pāśān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.024.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.15.03
- Maṇḍala · Anuvāka · Ṛk
- 01.06.013
- Devatā देवता
- 1: Prajāpati; 2: Agni; 3-5: Savitṛ; 6-15: Varuṇa
- Ṛṣi ऋषि
- Śunaḥśepa Ājīgarti
- Chandas छन्दस्
- Triṣṭubh, Gāyatrī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.