Ṛk 1.24.12
Saṃhitā
तदिन्नक्तं॒ तद्दिवा॒ मह्य॑माहु॒स्तद॒यं केतो॑ हृ॒द आ वि च॑ष्टे ।
शुनः॒शेपो॒ यमह्व॑द्गृभी॒तः सो अ॒स्मान्राजा॒ वरु॑णो मुमोक्तु ॥
तद् इन् नक्तं तद् दिवा मह्यम् आहुस् तद् अयं केतो हृद आ वि चष्टे |
शुनःशेपो यम् अह्वद् गृभीतः सो अस्मान् राजा वरुणो मुमोक्तु ||
tádínnáktam táddívā máhyamāhustádayám kéto hṛdá ā́ ví caṣṭe ǀ
śúnaḥśépo yámáhvadgṛbhītáḥ só asmā́nrā́jā váruṇo mumoktu ǁ
tad in naktaṃ tad divā mahyam āhus tad ayaṃ keto hṛda ā vi caṣṭe |
śunaḥśepo yam ahvad gṛbhītaḥ so asmān rājā varuṇo mumoktu ||
Padapāṭha
तत् । इत् । नक्त॑म् । तत् । दिवा॑ । मह्य॑म् । आ॒हुः॒ । तत् । अ॒यम् । केतः॑ । हृ॒दः । आ । वि । च॒ष्टे॒ ।
शुनः॒शेपः॑ । यम् । अह्व॑त् । गृ॒भी॒तः । सः । अ॒स्मान् । राजा॑ । वरु॑णः । मु॒मो॒क्तु॒ ॥
तत् । इत् । नक्तम् । तत् । दिवा । मह्यम् । आहुः । तत् । अयम् । केतः । हृदः । आ । वि । चष्टे ।
शुनःशेपः । यम् । अह्वत् । गृभीतः । सः । अस्मान् । राजा । वरुणः । मुमोक्तु ॥
tát ǀ ít ǀ náktam ǀ tát ǀ dívā ǀ máhyam ǀ āhuḥ ǀ tát ǀ ayám ǀ kétaḥ ǀ hṛdáḥ ǀ ā́ ǀ ví ǀ caṣṭe ǀ
śúnaḥśépaḥ ǀ yám ǀ áhvat ǀ gṛbhītáḥ ǀ sáḥ ǀ asmā́n ǀ rā́jā ǀ váruṇaḥ ǀ mumoktu ǁ
tat ǀ it ǀ naktam ǀ tat ǀ divā ǀ mahyam ǀ āhuḥ ǀ tat ǀ ayam ǀ ketaḥ ǀ hṛdaḥ ǀ ā ǀ vi ǀ caṣṭe ǀ
śunaḥśepaḥ ǀ yam ǀ ahvat ǀ gṛbhītaḥ ǀ saḥ ǀ asmān ǀ rājā ǀ varuṇaḥ ǀ mumoktu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.024.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.15.02
- Maṇḍala · Anuvāka · Ṛk
- 01.06.012
- Devatā देवता
- 1: Prajāpati; 2: Agni; 3-5: Savitṛ; 6-15: Varuṇa
- Ṛṣi ऋषि
- Śunaḥśepa Ājīgarti
- Chandas छन्दस्
- Triṣṭubh, Gāyatrī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.