Ṛgveda · Maṇḍala 1 · Sūkta 69

Ṛk 1.69.8

Agni · Parāśara Śāktya

The whole sūkta Link

Saṃhitā

तत्तु ते॒ दंसो॒ यदह॑न्त्समा॒नैर्नृभि॒र्यद्यु॒क्तो वि॒वे रपां॑सि ॥

तत् तु ते दंसो यद् अहन् समानैर् नृभिर् यद् युक्तो विवे रपांसि ||

táttú te dáṃso yádáhantsamānáirnṛ́bhiryádyuktó vivé rápāṃsi ǁ

tat tu te daṃso yad ahan samānair nṛbhir yad yukto vive rapāṃsi ||

Padapāṭha

तत् । तु । ते॒ । दंसः॑ । यत् । अह॑न् । स॒मा॒नैः । नृऽभिः॑ । यत् । यु॒क्तः । वि॒वेः । रपां॑सि ॥

तत् । तु । ते । दंसः । यत् । अहन् । समानैः । नृऽभिः । यत् । युक्तः । विवेः । रपांसि ॥

tát ǀ tú ǀ te ǀ dáṃsaḥ ǀ yát ǀ áhan ǀ samānáiḥ ǀ nṛ́-bhiḥ ǀ yát ǀ yuktáḥ ǀ vivéḥ ǀ rápāṃsi ǁ

tat ǀ tu ǀ te ǀ daṃsaḥ ǀ yat ǀ ahan ǀ samānaiḥ ǀ nṛ-bhiḥ ǀ yat ǀ yuktaḥ ǀ viveḥ ǀ rapāṃsi ǁ

References

Maṇḍala · Sūkta · Ṛk
01.069.08
Aṣṭaka · Adhyāya · Varga · Ṛk
1.5.13.08
Maṇḍala · Anuvāka · Ṛk
1.12.048
Devatā देवता
Agni
Ṛṣi ऋषि
Parāśara Śāktya
Chandas छन्दस्
Dvipadā Virāj
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.69.8

Interpretations

Sāyaṇa

हे अग्ने ते तव संबंधीन्येता व्रता एतानि परिदृश्यमानानि दर्शपूर्णमासादीनि कर्माणि नकिर्मिनंति । राक्षसादयो बाधका न हिंसंति । यद्यस्मात्त्वमेभ्यः कर्मसु वर्तमाानेभ्योः नृभ्यो यज्ञस्य नेतृभ्यो यजमानेभ्यः श्रुष्टिं । शु आश्वश्नुते व्याप्नोतीति श्रुष्टिर्यज्ञफलरूपं सुखं । तच्चिकर्थ कृतवानसि । सति हि तव व्रतानां बाधक एतन्नोपपद्यते । अतोऽवगम्यते तव व्रतानां हिंसका न संतीति । हे अग्ने ते त्वदीयं तत्तु दंसस्तदेव कर्म यद्यदि राक्षसादिरहन् हंति नाशयति कदानीं समानै सप्तगणरूपेण सदृशैर्नृभिर्नेतृभिर्मरुद्भिः युक्तस्त्वं रपांसि भादकानि राक्षसादीनि यद्यस्मात्त्वं विवेः गमयसि पलायनं प्रापयसि । तस्मात्तव व्रतानि न हिंसंतीति योज्यं ॥ मिनंति । मीञ् हिंसायं । क्रैयादिकः । प्वादीनां ह्रस्व इति ह्रस्वत्वं । विवेः । छंदसी लुङ् लङ् लिट इति वर्तमाने लङ् । वी गत्यादिषु । सिप्यदादित्वाच्छपो लुकि प्राप्ते बहुलं छंदसीति शपः श्लुः ॥ ७ ॥ ८ ॥