Ṛk 1.89.4
Saṃhitā
तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ।
तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वं ॥
तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत् पिता द्यौः |
तद् ग्रावाणः सोमसुतो मयोभुवस् तद् अश्विना शृणुतं धिष्ण्या युवम् ||
tánno vā́to mayobhú vātu bheṣajám tánmātā́ pṛthivī́ tátpitā́ dyáuḥ ǀ
tádgrā́vāṇaḥ somasúto mayobhúvastádaśvinā śṛṇutam dhiṣṇyā yuvám ǁ
tan no vāto mayobhu vātu bheṣajaṃ tan mātā pṛthivī tat pitā dyauḥ |
tad grāvāṇaḥ somasuto mayobhuvas tad aśvinā śṛṇutaṃ dhiṣṇyā yuvam ||
Padapāṭha
तत् । नः॒ । वातः॑ । म॒यः॒ऽभु । वा॒तु॒ । भे॒ष॒जम् । तत् । मा॒ता । पृ॒थि॒वी । तत् । पि॒ता । द्यौः ।
तत् । ग्रावा॑णः । सो॒म॒ऽसुतः॑ । म॒यः॒ऽभुवः॑ । तत् । अ॒श्वि॒ना॒ । शृ॒णु॒त॒म् । धि॒ष्ण्या॒ । यु॒वम् ॥
तत् । नः । वातः । मयःऽभु । वातु । भेषजम् । तत् । माता । पृथिवी । तत् । पिता । द्यौः ।
तत् । ग्रावाणः । सोमऽसुतः । मयःऽभुवः । तत् । अश्विना । शृणुतम् । धिष्ण्या । युवम् ॥
tát ǀ naḥ ǀ vā́taḥ ǀ mayaḥ-bhú ǀ vātu ǀ bheṣajám ǀ tát ǀ mātā́ ǀ pṛthivī́ ǀ tát ǀ pitā́ ǀ dyáuḥ ǀ
tát ǀ grā́vāṇaḥ ǀ soma-sútaḥ ǀ mayaḥ-bhúvaḥ ǀ tát ǀ aśvinā ǀ śṛṇutam ǀ dhiṣṇyā ǀ yuvám ǁ
tat ǀ naḥ ǀ vātaḥ ǀ mayaḥ-bhu ǀ vātu ǀ bheṣajam ǀ tat ǀ mātā ǀ pṛthivī ǀ tat ǀ pitā ǀ dyauḥ ǀ
tat ǀ grāvāṇaḥ ǀ soma-sutaḥ ǀ mayaḥ-bhuvaḥ ǀ tat ǀ aśvinā ǀ śṛṇutam ǀ dhiṣṇyā ǀ yuvam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.089.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.15.04
- Maṇḍala · Anuvāka · Ṛk
- 1.14.038
- Devatā देवता
- 1-5, 7-10: Viśvedevās; 6: Indra, Pūṣan, Viśvedevās
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Jagatī, Triṣṭubh, Virāṭsthānā
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.