Ṛgveda · Maṇḍala 1 · Sūkta 185
Ṛk 1.185.8
Saṃhitā
दे॒वान्वा॒ यच्च॑कृ॒मा कच्चि॒दागः॒ सखा॑यं वा॒ सद॒मिज्जास्प॑तिं वा ।
इ॒यं धीर्भू॑या अव॒यान॑मेषां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
देवान् वा यच् चकृमा कच् चिद् आगः सखायं वा सदम् इज् जास्पतिं वा |
इयं धीर् भूया अवयानम् एषां द्यावा रक्षतम् पृथिवी नो अभ्वात् ||
devā́nvā yáccakṛmā́ káccidā́gaḥ sákhāyam vā sádamíjjā́spatim vā ǀ
iyám dhī́rbhūyā avayā́nameṣām dyā́vā rákṣatam pṛthivī no ábhvāt ǁ
devān vā yac cakṛmā kac cid āgaḥ sakhāyaṃ vā sadam ij jāspatiṃ vā |
iyaṃ dhīr bhūyā avayānam eṣāṃ dyāvā rakṣatam pṛthivī no abhvāt ||
Padapāṭha
दे॒वान् । वा॒ । यत् । च॒कृ॒म । कत् । चि॒त् । आगः॑ । सखा॑यम् । वा॒ । सद॑म् । इत् । जाःऽप॑तिम् । वा॒ ।
इ॒यम् । धीः । भू॒याः॒ । अ॒व॒ऽयान॑म् । ए॒षा॒म् । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥
देवान् । वा । यत् । चकृम । कत् । चित् । आगः । सखायम् । वा । सदम् । इत् । जाःऽपतिम् । वा ।
इयम् । धीः । भूयाः । अवऽयानम् । एषाम् । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥
devā́n ǀ vā ǀ yát ǀ cakṛmá ǀ kát ǀ cit ǀ ā́gaḥ ǀ sákhāyam ǀ vā ǀ sádam ǀ ít ǀ jā́ḥ-patim ǀ vā ǀ
iyám ǀ dhī́ḥ ǀ bhūyāḥ ǀ ava-yā́nam ǀ eṣām ǀ dyā́vā ǀ rákṣatam ǀ pṛthivī íti ǀ naḥ ǀ ábhvāt ǁ
devān ǀ vā ǀ yat ǀ cakṛma ǀ kat ǀ cit ǀ āgaḥ ǀ sakhāyam ǀ vā ǀ sadam ǀ it ǀ jāḥ-patim ǀ vā ǀ
iyam ǀ dhīḥ ǀ bhūyāḥ ǀ ava-yānam ǀ eṣām ǀ dyāvā ǀ rakṣatam ǀ pṛthivī iti ǀ naḥ ǀ abhvāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.185.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.03.00
- Devatā देवता
- Divaḥ, Pṛthivī
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.