Ṛgveda · Maṇḍala 1 · Sūkta 185
Ṛk 1.185.11
Saṃhitā
इ॒दं द्या॑वापृथिवी स॒त्यम॑स्तु॒ पित॒र्मात॒र्यदि॒होप॑ब्रु॒वे वां॑ ।
भू॒तं दे॒वाना॑मव॒मे अवो॑भिर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
इदं द्यावापृथिवी सत्यम् अस्तु पितर् मातर् यद् इहोपब्रुवे वाम् |
भूतं देवानाम् अवमे अवोभिर् विद्यामेषं वृजनं जीरदानुम् ||
idám dyāvāpṛthivī satyámastu pítarmā́taryádihópabruvé vām ǀ
bhūtám devā́nāmavamé ávobhirvidyā́meṣám vṛjánam jīrádānum ǁ
idaṃ dyāvāpṛthivī satyam astu pitar mātar yad ihopabruve vām |
bhūtaṃ devānām avame avobhir vidyāmeṣaṃ vṛjanaṃ jīradānum ||
Padapāṭha
इ॒दम् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । स॒त्यम् । अ॒स्तु॒ । पितः॑ । मातः॑ । यत् । इ॒ह । उ॒प॒ऽब्रु॒वे । वा॒म् ।
भू॒तम् । दे॒वाना॑म् । अ॒व॒मे इति॑ । अवः॑ऽभिः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥
इदम् । द्यावापृथिवी इति । सत्यम् । अस्तु । पितः । मातः । यत् । इह । उपऽब्रुवे । वाम् ।
भूतम् । देवानाम् । अवमे इति । अवःऽभिः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥
idám ǀ dyāvāpṛthivī íti ǀ satyám ǀ astu ǀ pítaḥ ǀ mā́taḥ ǀ yát ǀ ihá ǀ upa-bruvé ǀ vām ǀ
bhūtám ǀ devā́nām ǀ avamé íti ǀ ávaḥ-bhiḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ
idam ǀ dyāvāpṛthivī iti ǀ satyam ǀ astu ǀ pitaḥ ǀ mātaḥ ǀ yat ǀ iha ǀ upa-bruve ǀ vām ǀ
bhūtam ǀ devānām ǀ avame iti ǀ avaḥ-bhiḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.185.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.03.00
- Devatā देवता
- Divaḥ, Pṛthivī
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.