Ṛgveda · Maṇḍala 1 · Sūkta 185
Ṛk 1.185.3
Saṃhitā
अ॒ने॒हो दा॒त्रमदि॑तेरन॒र्वं हु॒वे स्व॑र्वदव॒धं नम॑स्वत् ।
तद्रो॑दसी जनयतं जरि॒त्रे द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
अनेहो दात्रम् अदितेर् अनर्वं हुवे स्वर्वद् अवधं नमस्वत् |
तद् रोदसी जनयतं जरित्रे द्यावा रक्षतम् पृथिवी नो अभ्वात् ||
anehó dātrámáditeranarvám huvé svárvadavadhám námasvat ǀ
tádrodasī janayatam jaritré dyā́vā rákṣatam pṛthivī no ábhvāt ǁ
aneho dātram aditer anarvaṃ huve svarvad avadhaṃ namasvat |
tad rodasī janayataṃ jaritre dyāvā rakṣatam pṛthivī no abhvāt ||
Padapāṭha
अ॒ने॒हः । दा॒त्रम् । अदि॑तेः । अ॒न॒र्वम् । हु॒वे । स्वः॑ऽवत् । अ॒व॒धम् । नम॑स्वत् ।
तत् । रो॒द॒सी॒ इति॑ । ज॒न॒य॒त॒म् । ज॒रि॒त्रे । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥
अनेहः । दात्रम् । अदितेः । अनर्वम् । हुवे । स्वःऽवत् । अवधम् । नमस्वत् ।
तत् । रोदसी इति । जनयतम् । जरित्रे । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥
aneháḥ ǀ dātrám ǀ áditeḥ ǀ anarvám ǀ huvé ǀ sváḥ-vat ǀ avadhám ǀ námasvat ǀ
tát ǀ rodasī íti ǀ janayatam ǀ jaritré ǀ dyā́vā ǀ rákṣatam ǀ pṛthivī íti ǀ naḥ ǀ ábhvāt ǁ
anehaḥ ǀ dātram ǀ aditeḥ ǀ anarvam ǀ huve ǀ svaḥ-vat ǀ avadham ǀ namasvat ǀ
tat ǀ rodasī iti ǀ janayatam ǀ jaritre ǀ dyāvā ǀ rakṣatam ǀ pṛthivī iti ǀ naḥ ǀ abhvāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.185.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.02.00
- Devatā देवता
- Divaḥ, Pṛthivī
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.