Ṛgveda · Maṇḍala 1 · Sūkta 160
Ṛk 1.160.5
Saṃhitā
ते नो॑ गृणा॒ने म॑हिनी॒ महि॒ श्रवः॑ क्ष॒त्रं द्या॑वापृथिवी धासथो बृ॒हत् ।
येना॒भि कृ॒ष्टीस्त॒तना॑म वि॒श्वहा॑ प॒नाय्य॒मोजो॑ अ॒स्मे समि॑न्वतं ॥
ते नो गृणाने महिनी महि श्रवः क्षत्रं द्यावापृथिवी धासथो बृहत् |
येनाभि कृष्टीस् ततनाम विश्वहा पनाय्यम् ओजो अस्मे सम् इन्वतम् ||
té no gṛṇāné mahinī máhi śrávaḥ kṣatrám dyāvāpṛthivī dhāsatho bṛhát ǀ
yénābhí kṛṣṭī́statánāma viśváhā panā́yyamójo asmé sáminvatam ǁ
te no gṛṇāne mahinī mahi śravaḥ kṣatraṃ dyāvāpṛthivī dhāsatho bṛhat |
yenābhi kṛṣṭīs tatanāma viśvahā panāyyam ojo asme sam invatam ||
Padapāṭha
ते । नः॒ । गृ॒णा॒ने इति॑ । म॒हि॒नी॒ इति॑ । महि॑ । श्रवः॑ । क्ष॒त्रम् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । धा॒स॒थः॒ । बृ॒हत् ।
येन॑ । अ॒भि । कृ॒ष्टीः । त॒तना॑म । वि॒श्वहा॑ । प॒नाय्य॑म् । ओजः॑ । अ॒स्मे इति॑ । सम् । इ॒न्व॒त॒म् ॥
ते । नः । गृणाने इति । महिनी इति । महि । श्रवः । क्षत्रम् । द्यावापृथिवी इति । धासथः । बृहत् ।
येन । अभि । कृष्टीः । ततनाम । विश्वहा । पनाय्यम् । ओजः । अस्मे इति । सम् । इन्वतम् ॥
té ǀ naḥ ǀ gṛṇāné íti ǀ mahinī íti ǀ máhi ǀ śrávaḥ ǀ kṣatrám ǀ dyāvāpṛthivī íti ǀ dhāsathaḥ ǀ bṛhát ǀ
yéna ǀ abhí ǀ kṛṣṭī́ḥ ǀ tatánāma ǀ viśváhā ǀ panā́yyam ǀ ójaḥ ǀ asmé íti ǀ sám ǀ invatam ǁ
te ǀ naḥ ǀ gṛṇāne iti ǀ mahinī iti ǀ mahi ǀ śravaḥ ǀ kṣatram ǀ dyāvāpṛthivī iti ǀ dhāsathaḥ ǀ bṛhat ǀ
yena ǀ abhi ǀ kṛṣṭīḥ ǀ tatanāma ǀ viśvahā ǀ panāyyam ǀ ojaḥ ǀ asme iti ǀ sam ǀ invatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.160.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.03.00
- Devatā देवता
- Divaḥ, Pṛthivī
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.