Ṛgveda · Maṇḍala 1 · Sūkta 161

Ṛk 1.161.1

Ṛbhus · Dīrghatamas Aucathya

The whole sūkta Link

Saṃhitā

किमु॒ श्रेष्ठः॒ किं यवि॑ष्ठो न॒ आज॑ग॒न्किमी॑यते दू॒त्यं१॒॑ कद्यदू॑चि॒म ।
न निं॑दिम चम॒सं यो म॑हाकु॒लोऽग्ने॑ भ्रात॒र्द्रुण॒ इद्भू॒तिमू॑दिम ॥

किम् उ श्रेष्ठः किं यविष्ठो न आजगन् किम् ईयते दूत्यं कद् यद् ऊचिम |
न निन्दिम चमसं यो महाकुलो ऽग्ने भ्रातर् द्रुण इद् भूतिम् ऊदिम ||

kímu śréṣṭhaḥ kím yáviṣṭho na ā́jagankímīyate dūtyám kádyádūcimá ǀ
ná nindima camasám yó mahākuló’gne bhrātardrúṇa ídbhūtímūdima ǁ

kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan kim īyate dūtyaṃ kad yad ūcima |
na nindima camasaṃ yo mahākulo 'gne bhrātar druṇa id bhūtim ūdima ||

Padapāṭha

किम् । ऊं॒ इति॑ । श्रेष्ठः॑ । किम् । यवि॑ष्ठः । नः॒ । आ । अ॒ज॒ग॒न् । किम् । ई॒य॒ते॒ । दू॒त्य॑म् । कत् । यत् । ऊ॒चि॒म ।
न । नि॒न्दि॒म॒ । च॒म॒सम् । यः । म॒हा॒ऽकु॒लः । अ॒ग्ने॒ । भ्रा॒तः॒ । द्रुणः॑ । इत् । भू॒तिम् । ऊ॒दि॒म॒ ॥

किम् । ऊं इति । श्रेष्ठः । किम् । यविष्ठः । नः । आ । अजगन् । किम् । ईयते । दूत्यम् । कत् । यत् । ऊचिम ।
न । निन्दिम । चमसम् । यः । महाऽकुलः । अग्ने । भ्रातः । द्रुणः । इत् । भूतिम् । ऊदिम ॥

kím ǀ ūṃ íti ǀ śréṣṭhaḥ ǀ kím ǀ yáviṣṭhaḥ ǀ naḥ ǀ ā́ ǀ ajagan ǀ kím ǀ īyate ǀ dūtyám ǀ kát ǀ yát ǀ ūcimá ǀ
ná ǀ nindima ǀ camasám ǀ yáḥ ǀ mahā-kuláḥ ǀ agne ǀ bhrātaḥ ǀ drúṇaḥ ǀ ít ǀ bhūtím ǀ ūdima ǁ

kim ǀ ūṃ iti ǀ śreṣṭhaḥ ǀ kim ǀ yaviṣṭhaḥ ǀ naḥ ǀ ā ǀ ajagan ǀ kim ǀ īyate ǀ dūtyam ǀ kat ǀ yat ǀ ūcima ǀ
na ǀ nindima ǀ camasam ǀ yaḥ ǀ mahā-kulaḥ ǀ agne ǀ bhrātaḥ ǀ druṇaḥ ǀ it ǀ bhūtim ǀ ūdima ǁ

References

Maṇḍala · Sūkta · Ṛk
01.161.01
Aṣṭaka · Adhyāya · Varga · Ṛk
2.3.04.00
Devatā देवता
Ṛbhus
Ṛṣi ऋषि
Dīrghatamas Aucathya
Chandas छन्दस्
Jagatī, Triṣṭubh
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.161.1

Interpretations

Ralph T. H. Griffith

WHY hath the Best, why hath the Youngest come to us? Upon what embassy comes he? What have we said? We have not blamed the chalice of illustrious birth. We, Brother Agni, praised the goodness of the wood.