Ṛgveda · Maṇḍala 1 · Sūkta 161
Ṛk 1.161.9
Saṃhitā
आपो॒ भूयि॑ष्ठा॒ इत्येको॑ अब्रवीद॒ग्निर्भूयि॑ष्ठ॒ इत्य॒न्यो अ॑ब्रवीत् ।
व॒ध॒र्यंतीं॑ ब॒हुभ्यः॒ प्रैको॑ अब्रवीदृ॒ता वदं॑तश्चम॒साँ अ॑पिंशत ॥
आपो भूयिष्ठा इत्य् एको अब्रवीद् अग्निर् भूयिष्ठ इत्य् अन्यो अब्रवीत् |
वधर्यन्तीम् बहुभ्यः प्रैको अब्रवीद् ऋता वदन्तश् चमसां अपिंशत ||
ā́po bhū́yiṣṭhā ítyéko abravīdagnírbhū́yiṣṭha ítyanyó abravīt ǀ
vadharyántīm bahúbhyaḥ práiko abravīdṛtā́ vádantaścamasā́m̐ apiṃśata ǁ
āpo bhūyiṣṭhā ity eko abravīd agnir bhūyiṣṭha ity anyo abravīt |
vadharyantīm bahubhyaḥ praiko abravīd ṛtā vadantaś camasāṃ apiṃśata ||
Padapāṭha
आपः॑ । भूयि॑ष्ठाः । इति॑ । एकः॑ । अ॒ब्र॒वी॒त् । अ॒ग्निः । भूयि॑ष्ठः । इति॑ । अ॒न्यः । अ॒ब्र॒वी॒त् ।
व॒धः॒ऽयन्ती॑म् । ब॒हुऽभ्यः॑ । प्र । एकः॑ । अ॒ब्र॒वी॒त् । ऋ॒ता । वद॑न्तः । च॒म॒सान् । अ॒पिं॒श॒त॒ ॥
आपः । भूयिष्ठाः । इति । एकः । अब्रवीत् । अग्निः । भूयिष्ठः । इति । अन्यः । अब्रवीत् ।
वधःऽयन्तीम् । बहुऽभ्यः । प्र । एकः । अब्रवीत् । ऋता । वदन्तः । चमसान् । अपिंशत ॥
ā́paḥ ǀ bhū́yiṣṭhāḥ ǀ íti ǀ ékaḥ ǀ abravīt ǀ agníḥ ǀ bhū́yiṣṭhaḥ ǀ íti ǀ anyáḥ ǀ abravīt ǀ
vadhaḥ-yántīm ǀ bahú-bhyaḥ ǀ prá ǀ ékaḥ ǀ abravīt ǀ ṛtā́ ǀ vádantaḥ ǀ camasā́n ǀ apiṃśata ǁ
āpaḥ ǀ bhūyiṣṭhāḥ ǀ iti ǀ ekaḥ ǀ abravīt ǀ agniḥ ǀ bhūyiṣṭhaḥ ǀ iti ǀ anyaḥ ǀ abravīt ǀ
vadhaḥ-yantīm ǀ bahu-bhyaḥ ǀ pra ǀ ekaḥ ǀ abravīt ǀ ṛtā ǀ vadantaḥ ǀ camasān ǀ apiṃśata ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.161.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.05.00
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.