Ṛgveda · Maṇḍala 1 · Sūkta 161
Ṛk 1.161.12
Saṃhitā
स॒म्मील्य॒ यद्भुव॑ना प॒र्यस॑र्पत॒ क्व॑ स्वित्ता॒त्या पि॒तरा॑ व आसतुः ।
अश॑पत॒ यः क॒रस्नं॑ व आद॒दे यः प्राब्र॑वी॒त्प्रो तस्मा॑ अब्रवीतन ॥
सम्मील्य यद् भुवना पर्यसर्पत क्व स्वित् तात्या पितरा व आसतुः |
अशपत यः करस्नं व आददे यः प्राब्रवीत् प्रो तस्मा अब्रवीतन ||
sammī́lya yádbhúvanā paryásarpata kvá svittātyā́ pitárā va āsatuḥ ǀ
áśapata yáḥ karásnam va ādadé yáḥ prā́bravītpró tásmā abravītana ǁ
sammīlya yad bhuvanā paryasarpata kva svit tātyā pitarā va āsatuḥ |
aśapata yaḥ karasnaṃ va ādade yaḥ prābravīt pro tasmā abravītana ||
Padapāṭha
स॒म्ऽमील्य॑ । यत् । भुव॑ना । प॒रि॒ऽअस॑र्पत । क्व॑ । स्वि॒त् । ता॒त्या । पि॒तरा॑ । वः॒ । आ॒स॒तुः॒ ।
अश॑पत । यः । क॒रस्न॑म् । वः॒ । आ॒ऽद॒दे । यः । प्र । अब्र॑वीत् । प्रो इति॑ । तस्मै॑ । अ॒ब्र॒वी॒त॒न॒ ॥
सम्ऽमील्य । यत् । भुवना । परिऽअसर्पत । क्व । स्वित् । तात्या । पितरा । वः । आसतुः ।
अशपत । यः । करस्नम् । वः । आऽददे । यः । प्र । अब्रवीत् । प्रो इति । तस्मै । अब्रवीतन ॥
sam-mī́lya ǀ yát ǀ bhúvanā ǀ pari-ásarpata ǀ kvá ǀ svit ǀ tātyā́ ǀ pitárā ǀ vaḥ ǀ āsatuḥ ǀ
áśapata ǀ yáḥ ǀ karásnam ǀ vaḥ ǀ ā-dadé ǀ yáḥ ǀ prá ǀ ábravīt ǀ pró íti ǀ tásmai ǀ abravītana ǁ
sam-mīlya ǀ yat ǀ bhuvanā ǀ pari-asarpata ǀ kva ǀ svit ǀ tātyā ǀ pitarā ǀ vaḥ ǀ āsatuḥ ǀ
aśapata ǀ yaḥ ǀ karasnam ǀ vaḥ ǀ ā-dade ǀ yaḥ ǀ pra ǀ abravīt ǀ pro iti ǀ tasmai ǀ abravītana ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.161.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.06.00
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.