Ṛgveda · Maṇḍala 1 · Sūkta 161

Ṛk 1.161.14

Ṛbhus · Dīrghatamas Aucathya

The whole sūkta Link

Saṃhitā

दि॒वा यां॑ति म॒रुतो॒ भूम्या॒ग्निर॒यं वातो॑ अं॒तरि॑क्षेण याति ।
अ॒द्भिर्या॑ति॒ वरु॑णः समु॒द्रैर्यु॒ष्माँ इ॒च्छंतः॑ शवसो नपातः ॥

दिवा यान्ति मरुतो भूम्याग्निर् अयं वातो अन्तरिक्षेण याति |
अद्भिर् याति वरुणः समुद्रैर् युष्मां इच्छन्तः शवसो नपातः ||

divā́ yānti marúto bhū́myāgnírayám vā́to antárikṣeṇa yāti ǀ
adbhíryāti váruṇaḥ samudráiryuṣmā́m̐ icchántaḥ śavaso napātaḥ ǁ

divā yānti maruto bhūmyāgnir ayaṃ vāto antarikṣeṇa yāti |
adbhir yāti varuṇaḥ samudrair yuṣmāṃ icchantaḥ śavaso napātaḥ ||

Padapāṭha

दि॒वा । या॒न्ति॒ । म॒रुतः॑ । भूम्या॑ । अ॒ग्निः । अ॒यम् । वातः॑ । अ॒न्तरि॑क्षेण । या॒ति॒ ।
अ॒त्ऽभिः । या॒ति॒ । वरु॑णः । स॒मु॒द्रैः । यु॒ष्मान् । इ॒च्छन्तः॑ । श॒व॒सः॒ । न॒पा॒तः॒ ॥

दिवा । यान्ति । मरुतः । भूम्या । अग्निः । अयम् । वातः । अन्तरिक्षेण । याति ।
अत्ऽभिः । याति । वरुणः । समुद्रैः । युष्मान् । इच्छन्तः । शवसः । नपातः ॥

divā́ ǀ yānti ǀ marútaḥ ǀ bhū́myā ǀ agníḥ ǀ ayám ǀ vā́taḥ ǀ antárikṣeṇa ǀ yāti ǀ
at-bhíḥ ǀ yāti ǀ váruṇaḥ ǀ samudráiḥ ǀ yuṣmā́n ǀ icchántaḥ ǀ śavasaḥ ǀ napātaḥ ǁ

divā ǀ yānti ǀ marutaḥ ǀ bhūmyā ǀ agniḥ ǀ ayam ǀ vātaḥ ǀ antarikṣeṇa ǀ yāti ǀ
at-bhiḥ ǀ yāti ǀ varuṇaḥ ǀ samudraiḥ ǀ yuṣmān ǀ icchantaḥ ǀ śavasaḥ ǀ napātaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
01.161.14
Aṣṭaka · Adhyāya · Varga · Ṛk
2.3.06.00
Devatā देवता
Ṛbhus
Ṛṣi ऋषि
Dīrghatamas Aucathya
Chandas छन्दस्
Jagatī, Triṣṭubh
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.161.14

Interpretations

Sāyaṇa

मानोमित्रइतिद्वाविंशत्यृचंपंचमंसूक्तं दैर्घतमसं तृतीयाषष्ठ्यौजगत्यौ शिष्टास्त्रिष्टुभः अश्वस्यस्तू- यमानत्वाद्यातेनोच्यतेसादेवतेतिन्यायेनाश्वोदेवता अत्रानुक्रमणिका—मानिद्भ्यधिकाश्वस्तुतिस्तु तृ- तीयाषष्ठ्यौजगत्याविति । अश्वमेधस्यमध्यमेहन्यध्रिगुप्रैषे अध्रिगोशमीध्वमितिशिष्ट्वाषड्विंशति- रस्यवंक्रयइतिअस्मात्पुरस्ताद्वैतत्सूक्तमावपेत् त्रीणिसुत्यानिभवन्तीतिखण्डेसूत्रितम्—अध्रिगोशमी- ध्वमितिशिष्ट्वाषड्विंशतिरस्यवंक्रयइतिवामानोमित्रइत्यावपेतेति ।