Ṛgveda · Maṇḍala 1 · Sūkta 161
Ṛk 1.161.5
Saṃhitā
हना॑मैनाँ॒ इति॒ त्वष्टा॒ यदब्र॑वीच्चम॒सं ये दे॑व॒पान॒मनिं॑दिषुः ।
अ॒न्या नामा॑नि कृण्वते सु॒ते सचाँ॑ अ॒न्यैरे॑नान्क॒न्या॒३॒॑ नाम॑भिः स्परत् ॥
हनामैनां इति त्वष्टा यद् अब्रवीच् चमसं ये देवपानम् अनिन्दिषुः |
अन्या नामानि कृण्वते सुते सचां अन्यैर् एनान् कन्या नामभि स्परत् ||
hánāmainām̐ íti tváṣṭā yádábravīccamasám yé devapā́namánindiṣuḥ ǀ
anyā́ nā́māni kṛṇvate suté sácām̐ anyáirenānkanyā́ nā́mabhiḥ sparat ǁ
hanāmaināṃ iti tvaṣṭā yad abravīc camasaṃ ye devapānam anindiṣuḥ |
anyā nāmāni kṛṇvate sute sacāṃ anyair enān kanyā nāmabhi sparat ||
Padapāṭha
हना॑म । ए॒ना॒न् । इति॑ । त्वष्टा॑ । यत् । अब्र॑वीत् । च॒म॒सम् । ये । दे॒व॒ऽपान॑म् । अनि॑न्दिषुः ।
अ॒न्या । नामा॑नि । कृ॒ण्व॒ते॒ । सु॒ते । सचा॑ । अ॒न्यैः । ए॒ना॒न् । क॒न्या॑ । नाम॑ऽभिः । स्प॒र॒त् ॥
हनाम । एनान् । इति । त्वष्टा । यत् । अब्रवीत् । चमसम् । ये । देवऽपानम् । अनिन्दिषुः ।
अन्या । नामानि । कृण्वते । सुते । सचा । अन्यैः । एनान् । कन्या । नामऽभिः । स्परत् ॥
hánāma ǀ enān ǀ íti ǀ tváṣṭā ǀ yát ǀ ábravīt ǀ camasám ǀ yé ǀ deva-pā́nam ǀ ánindiṣuḥ ǀ
anyā́ ǀ nā́māni ǀ kṛṇvate ǀ suté ǀ sácā ǀ anyáiḥ ǀ enān ǀ kanyā́ ǀ nā́ma-bhiḥ ǀ sparat ǁ
hanāma ǀ enān ǀ iti ǀ tvaṣṭā ǀ yat ǀ abravīt ǀ camasam ǀ ye ǀ deva-pānam ǀ anindiṣuḥ ǀ
anyā ǀ nāmāni ǀ kṛṇvate ǀ sute ǀ sacā ǀ anyaiḥ ǀ enān ǀ kanyā ǀ nāma-bhiḥ ǀ sparat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.161.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.04.00
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.