Ṛgveda · Maṇḍala 1 · Sūkta 161
Ṛk 1.161.13
Saṃhitā
सु॒षु॒प्वांस॑ ऋभव॒स्तद॑पृच्छ॒तागो॑ह्य॒ क इ॒दं नो॑ अबूबुधत् ।
श्वानं॑ ब॒स्तो बो॑धयि॒तार॑मब्रवीत्संवत्स॒र इ॒दम॒द्या व्य॑ख्यत ॥
सुषुप्वांस ऋभवस् तद् अपृच्छतागोह्य क इदं नो अबूबुधत् |
श्वानम् बस्तो बोधयितारम् अब्रवीत् संवत्सर इदम् अद्या व्य् अख्यत ||
suṣupvā́ṃsa ṛbhavastádapṛcchatā́gohya ká idám no abūbudhat ǀ
śvā́nam bastó bodhayitā́ramabravītsaṃvatsará idámadyā́ vyákhyata ǁ
suṣupvāṃsa ṛbhavas tad apṛcchatāgohya ka idaṃ no abūbudhat |
śvānam basto bodhayitāram abravīt saṃvatsara idam adyā vy akhyata ||
Padapāṭha
सु॒सु॒प्वांसः॑ । ऋ॒भ॒वः॒ । तत् । अ॒पृ॒च्छ॒त॒ । अगो॑ह्य । कः । इ॒दम् । नः॒ । अ॒बू॒बु॒ध॒त् ।
श्वान॑म् । ब॒स्तः । बो॒ध॒यि॒तार॑म् । अ॒ब्र॒वी॒त् । सं॒व॒त्स॒रे । इ॒दम् । अ॒द्य । वि । अ॒ख्य॒त॒ ॥
सुसुप्वांसः । ऋभवः । तत् । अपृच्छत । अगोह्य । कः । इदम् । नः । अबूबुधत् ।
श्वानम् । बस्तः । बोधयितारम् । अब्रवीत् । संवत्सरे । इदम् । अद्य । वि । अख्यत ॥
susupvā́ṃsaḥ ǀ ṛbhavaḥ ǀ tát ǀ apṛcchata ǀ ágohya ǀ káḥ ǀ idám ǀ naḥ ǀ abūbudhat ǀ
śvā́nam ǀ bastáḥ ǀ bodhayitā́ram ǀ abravīt ǀ saṃvatsaré ǀ idám ǀ adyá ǀ ví ǀ akhyata ǁ
susupvāṃsaḥ ǀ ṛbhavaḥ ǀ tat ǀ apṛcchata ǀ agohya ǀ kaḥ ǀ idam ǀ naḥ ǀ abūbudhat ǀ
śvānam ǀ bastaḥ ǀ bodhayitāram ǀ abravīt ǀ saṃvatsare ǀ idam ǀ adya ǀ vi ǀ akhyata ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.161.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.06.00
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.