Ṛgveda · Maṇḍala 1 · Sūkta 161
Ṛk 1.161.3
Saṃhitā
अ॒ग्निं दू॒तं प्रति॒ यदब्र॑वीत॒नाश्वः॒ कर्त्वो॒ रथ॑ उ॒तेह कर्त्वः॑ ।
धे॒नुः कर्त्वा॑ युव॒शा कर्त्वा॒ द्वा तानि॑ भ्रात॒रनु॑ वः कृ॒त्व्येम॑सि ॥
अग्निं दूतम् प्रति यद् अब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः |
धेनुः कर्त्वा युवशा कर्त्वा द्वा तानि भ्रातर् अनु वः कृत्व्य् एमसि ||
agním dūtám práti yádábravītanā́śvaḥ kártvo rátha utéhá kártvaḥ ǀ
dhenúḥ kártvā yuvaśā́ kártvā dvā́ tā́ni bhrātaránu vaḥ kṛtvyémasi ǁ
agniṃ dūtam prati yad abravītanāśvaḥ kartvo ratha uteha kartvaḥ |
dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātar anu vaḥ kṛtvy emasi ||
Padapāṭha
अ॒ग्निम् । दू॒तम् । प्रति॑ । यत् । अब्र॑वीतन । अश्वः॑ । कर्त्वः॑ । रथः॑ । उ॒त । इ॒ह । कर्त्वः॑ ।
धे॒नुः । कर्त्वा॑ । यु॒व॒शा । कर्त्वा॑ । द्वा । तानि॑ । भ्रा॒तः॒ । अनु॑ । वः॒ । कृ॒त्वी । आ । इ॒म॒सि॒ ॥
अग्निम् । दूतम् । प्रति । यत् । अब्रवीतन । अश्वः । कर्त्वः । रथः । उत । इह । कर्त्वः ।
धेनुः । कर्त्वा । युवशा । कर्त्वा । द्वा । तानि । भ्रातः । अनु । वः । कृत्वी । आ । इमसि ॥
agním ǀ dūtám ǀ práti ǀ yát ǀ ábravītana ǀ áśvaḥ ǀ kártvaḥ ǀ ráthaḥ ǀ utá ǀ ihá ǀ kártvaḥ ǀ
dhenúḥ ǀ kártvā ǀ yuvaśā́ ǀ kártvā ǀ dvā́ ǀ tā́ni ǀ bhrātaḥ ǀ ánu ǀ vaḥ ǀ kṛtvī́ ǀ ā́ ǀ imasi ǁ
agnim ǀ dūtam ǀ prati ǀ yat ǀ abravītana ǀ aśvaḥ ǀ kartvaḥ ǀ rathaḥ ǀ uta ǀ iha ǀ kartvaḥ ǀ
dhenuḥ ǀ kartvā ǀ yuvaśā ǀ kartvā ǀ dvā ǀ tāni ǀ bhrātaḥ ǀ anu ǀ vaḥ ǀ kṛtvī ǀ ā ǀ imasi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.161.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.04.00
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.