Ṛgveda · Maṇḍala 1 · Sūkta 161
Ṛk 1.161.6
Saṃhitā
इंद्रो॒ हरी॑ युयु॒जे अ॒श्विना॒ रथं॒ बृह॒स्पति॑र्वि॒श्वरू॑पा॒मुपा॑जत ।
ऋ॒भुर्विभ्वा॒ वाजो॑ दे॒वाँ अ॑गच्छत॒ स्वप॑सो य॒ज्ञियं॑ भा॒गमै॑तन ॥
इन्द्रो हरी युयुजे अश्विना रथम् बृहस्पतिर् विश्वरूपाम् उपाजत |
ऋभुर् विभ्वा वाजो देवां अगच्छत स्वपसो यज्ञियम् भागम् ऐतन ||
índro hárī yuyujé aśvínā rátham bṛ́haspátirviśvárūpāmúpājata ǀ
ṛbhúrvíbhvā vā́jo devā́m̐ agacchata svápaso yajñíyam bhāgámaitana ǁ
indro harī yuyuje aśvinā ratham bṛhaspatir viśvarūpām upājata |
ṛbhur vibhvā vājo devāṃ agacchata svapaso yajñiyam bhāgam aitana ||
Padapāṭha
इन्द्रः॑ । हरी॒ इति॑ । यु॒यु॒जे । अ॒श्विना॑ । रथ॑म् । बृह॒स्पतिः॑ । वि॒श्वऽरू॑पाम् । उप॑ । आ॒ज॒त॒ ।
ऋ॒भुः । विऽभ्वा॑ । वाजः॑ । दे॒वान् । अ॒ग॒च्छ॒त॒ । सु॒ऽअप॑सः । य॒ज्ञिय॑म् । भा॒गम् । ऐ॒त॒न॒ ॥
इन्द्रः । हरी इति । युयुजे । अश्विना । रथम् । बृहस्पतिः । विश्वऽरूपाम् । उप । आजत ।
ऋभुः । विऽभ्वा । वाजः । देवान् । अगच्छत । सुऽअपसः । यज्ञियम् । भागम् । ऐतन ॥
índraḥ ǀ hárī íti ǀ yuyujé ǀ aśvínā ǀ rátham ǀ bṛ́haspátiḥ ǀ viśvá-rūpām ǀ úpa ǀ ājata ǀ
ṛbhúḥ ǀ ví-bhvā ǀ vā́jaḥ ǀ devā́n ǀ agacchata ǀ su-ápasaḥ ǀ yajñíyam ǀ bhāgám ǀ aitana ǁ
indraḥ ǀ harī iti ǀ yuyuje ǀ aśvinā ǀ ratham ǀ bṛhaspatiḥ ǀ viśva-rūpām ǀ upa ǀ ājata ǀ
ṛbhuḥ ǀ vi-bhvā ǀ vājaḥ ǀ devān ǀ agacchata ǀ su-apasaḥ ǀ yajñiyam ǀ bhāgam ǀ aitana ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.161.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.05.00
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.