Ṛgveda · Maṇḍala 1 · Sūkta 156
Ṛk 1.156.2
Saṃhitā
यः पू॒र्व्याय॑ वे॒धसे॒ नवी॑यसे सु॒मज्जा॑नये॒ विष्ण॑वे॒ ददा॑शति ।
यो जा॒तम॑स्य मह॒तो महि॒ ब्रव॒त्सेदु॒ श्रवो॑भि॒र्युज्यं॑ चिद॒भ्य॑सत् ॥
यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति |
यो जातम् अस्य महतो महि ब्रवत् सेद् उ श्रवोभिर् युज्यं चिद् अभ्य् असत् ||
yáḥ pūrvyā́ya vedháse návīyase sumájjānaye víṣṇave dádāśati ǀ
yó jātámasya maható máhi brávatsédu śrávobhiryújyam cidabhyasat ǁ
yaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati |
yo jātam asya mahato mahi bravat sed u śravobhir yujyaṃ cid abhy asat ||
Padapāṭha
यः । पू॒र्व्याय॑ । वे॒धसे॑ । नवी॑यसे । सु॒मत्ऽजा॑नये । विष्ण॑वे । ददा॑शति ।
यः । जा॒तम् । अ॒स्य॒ । म॒ह॒तः । महि॑ । ब्रव॑त् । सः । इत् । ऊं॒ इति॑ । श्रवः॑ऽभिः । युज्य॑म् । चि॒त् । अ॒भि । अ॒स॒त् ॥
यः । पूर्व्याय । वेधसे । नवीयसे । सुमत्ऽजानये । विष्णवे । ददाशति ।
यः । जातम् । अस्य । महतः । महि । ब्रवत् । सः । इत् । ऊं इति । श्रवःऽभिः । युज्यम् । चित् । अभि । असत् ॥
yáḥ ǀ pūrvyā́ya ǀ vedháse ǀ návīyase ǀ sumát-jānaye ǀ víṣṇave ǀ dádāśati ǀ
yáḥ ǀ jātám ǀ asya ǀ mahatáḥ ǀ máhi ǀ brávat ǀ sáḥ ǀ ít ǀ ūṃ íti ǀ śrávaḥ-bhiḥ ǀ yújyam ǀ cit ǀ abhí ǀ asat ǁ
yaḥ ǀ pūrvyāya ǀ vedhase ǀ navīyase ǀ sumat-jānaye ǀ viṣṇave ǀ dadāśati ǀ
yaḥ ǀ jātam ǀ asya ǀ mahataḥ ǀ mahi ǀ bravat ǀ saḥ ǀ it ǀ ūṃ iti ǀ śravaḥ-bhiḥ ǀ yujyam ǀ cit ǀ abhi ǀ asat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.156.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.26.02
- Maṇḍala · Anuvāka · Ṛk
- 1.21.116
- Devatā देवता
- Viṣṇu
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.