Ṛk 1.22.4
Saṃhitā
न॒हि वा॒मस्ति॑ दूर॒के यत्रा॒ रथे॑न॒ गच्छ॑थः ।
अश्वि॑ना सो॒मिनो॑ गृ॒हं ॥
नहि वाम् अस्ति दूरके यत्रा रथेन गच्छथः |
अश्विना सोमिनो गृहम् ||
nahí vāmásti dūraké yátrā ráthena gácchathaḥ ǀ
áśvinā somíno gṛhám ǁ
nahi vām asti dūrake yatrā rathena gacchathaḥ |
aśvinā somino gṛham ||
Padapāṭha
न॒हि । वा॒म् । अस्ति॑ । दू॒र॒के । यत्र॑ । रथे॑न । गच्छ॑थः ।
अश्वि॑ना । सो॒मिनः॑ । गृ॒हम् ॥
नहि । वाम् । अस्ति । दूरके । यत्र । रथेन । गच्छथः ।
अश्विना । सोमिनः । गृहम् ॥
nahí ǀ vām ǀ ásti ǀ dūraké ǀ yátra ǀ ráthena ǀ gácchathaḥ ǀ
áśvinā ǀ somínaḥ ǀ gṛhám ǁ
nahi ǀ vām ǀ asti ǀ dūrake ǀ yatra ǀ rathena ǀ gacchathaḥ ǀ
aśvinā ǀ sominaḥ ǀ gṛham ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.022.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.04.04
- Maṇḍala · Anuvāka · Ṛk
- 01.05.036
- Devatā देवता
- 1-4: Aśvins; 5-8: Savitṛ; 9, 10: Agni; 11: Devās; 12: Agnāyī, Indrāṇī, Varuṇānī; 13, 14: Divaḥ, Pṛthivī; 15: Pṛthivī; 16: Viṣṇu Or Devās; 17-21: Viṣṇu
- Ṛṣi ऋषि
- Medhātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.