Ṛgveda · Maṇḍala 1 · Sūkta 158
Ṛk 1.158.5
Saṃhitā
न मा॑ गरन्न॒द्यो॑ मा॒तृत॑मा दा॒सा यदीं॒ सुस॑मुब्धम॒वाधुः॑ ।
शिरो॒ यद॑स्य त्रैत॒नो वि॒तक्ष॑त्स्व॒यं दा॒स उरो॒ अंसा॒वपि॑ ग्ध ॥
न मा गरन् नद्यो मातृतमा दासा यद् ईं सुसमुब्धम् अवाधुः |
शिरो यद् अस्य त्रैतनो वितक्षत् स्वयं दास उरो अंसाव् अपि ग्ध ||
ná mā garannadyó mātṛ́tamā dāsā́ yádīm súsamubdhamavā́dhuḥ ǀ
śíro yádasya traitanó vitákṣatsvayám dāsá úro áṃsāvápi gdha ǁ
na mā garan nadyo mātṛtamā dāsā yad īṃ susamubdham avādhuḥ |
śiro yad asya traitano vitakṣat svayaṃ dāsa uro aṃsāv api gdha ||
Padapāṭha
न । मा॒ । ग॒र॒न् । न॒द्यः॑ । मा॒तृऽत॑माः । दा॒साः । यत् । ई॒म् । सुऽस॑मुब्धम् । अ॒व॒ऽअधुः॑ ।
शिरः॑ । यत् । अ॒स्य॒ । त्रै॒त॒नः । वि॒ऽतक्ष॑त् । स्व॒यम् । दा॒सः । उरः॑ । अंसौ॑ । अपि॑ । ग्धेति॑ग्ध ॥
न । मा । गरन् । नद्यः । मातृऽतमाः । दासाः । यत् । ईम् । सुऽसमुब्धम् । अवऽअधुः ।
शिरः । यत् । अस्य । त्रैतनः । विऽतक्षत् । स्वयम् । दासः । उरः । अंसौ । अपि । ग्धेतिग्ध ॥
ná ǀ mā ǀ garan ǀ nadyáḥ ǀ mātṛ́-tamāḥ ǀ dāsā́ḥ ǀ yát ǀ īm ǀ sú-samubdham ǀ ava-ádhuḥ ǀ
śíraḥ ǀ yát ǀ asya ǀ traitanáḥ ǀ vi-tákṣat ǀ svayám ǀ dāsáḥ ǀ úraḥ ǀ áṃsau ǀ ápi ǀ gdhétigdha ǁ
na ǀ mā ǀ garan ǀ nadyaḥ ǀ mātṛ-tamāḥ ǀ dāsāḥ ǀ yat ǀ īm ǀ su-samubdham ǀ ava-adhuḥ ǀ
śiraḥ ǀ yat ǀ asya ǀ traitanaḥ ǀ vi-takṣat ǀ svayam ǀ dāsaḥ ǀ uraḥ ǀ aṃsau ǀ api ǀ gdhetigdha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.158.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.01.00
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.