Ṛgveda · Maṇḍala 1 · Sūkta 158
Ṛk 1.158.2
Saṃhitā
को वां॑ दाशत्सुम॒तये॑ चिद॒स्यै वसू॒ यद्धेथे॒ नम॑सा प॒दे गोः ।
जि॒गृ॒तम॒स्मे रे॒वतीः॒ पुरं॑धीः काम॒प्रेणे॑व॒ मन॑सा॒ चरं॑ता ॥
को वां दाशत् सुमतये चिद् अस्यै वसू यद् धेथे नमसा पदे गोः |
जिगृतम् अस्मे रेवतीः पुरन्धीः कामप्रेणेव मनसा चरन्ता ||
kó vām dāśatsumatáye cidasyái vásū yáddhéthe námasā padé góḥ ǀ
jigṛtámasmé revátīḥ púraṃdhīḥ kāmapréṇeva mánasā cárantā ǁ
ko vāṃ dāśat sumataye cid asyai vasū yad dhethe namasā pade goḥ |
jigṛtam asme revatīḥ purandhīḥ kāmapreṇeva manasā carantā ||
Padapāṭha
कः । वा॒म् । दा॒श॒त् । सु॒ऽम॒तये॑ । चि॒त् । अ॒स्यै । वसू॒ इति॑ । यत् । धेथे॒ इति॑ । नम॑सा । प॒दे । गोः ।
जि॒गृ॒तम् । अ॒स्मे इति॑ । रे॒वतीः॑ । पुर॑म्ऽधीः । का॒म॒प्रेण॑ऽइव । मन॑सा । चर॑न्ता ॥
कः । वाम् । दाशत् । सुऽमतये । चित् । अस्यै । वसू इति । यत् । धेथे इति । नमसा । पदे । गोः ।
जिगृतम् । अस्मे इति । रेवतीः । पुरम्ऽधीः । कामप्रेणऽइव । मनसा । चरन्ता ॥
káḥ ǀ vām ǀ dāśat ǀ su-matáye ǀ cit ǀ asyái ǀ vásū íti ǀ yát ǀ dhéthe íti ǀ námasā ǀ padé ǀ góḥ ǀ
jigṛtám ǀ asmé íti ǀ revátīḥ ǀ púram-dhīḥ ǀ kāmapréṇa-iva ǀ mánasā ǀ cárantā ǁ
kaḥ ǀ vām ǀ dāśat ǀ su-mataye ǀ cit ǀ asyai ǀ vasū iti ǀ yat ǀ dhethe iti ǀ namasā ǀ pade ǀ goḥ ǀ
jigṛtam ǀ asme iti ǀ revatīḥ ǀ puram-dhīḥ ǀ kāmapreṇa-iva ǀ manasā ǀ carantā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.158.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.01.00
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.