Ṛgveda · Maṇḍala 1 · Sūkta 158
Ṛk 1.158.1
Saṃhitā
वसू॑ रु॒द्रा पु॑रु॒मंतू॑ वृ॒धंता॑ दश॒स्यतं॑ नो वृषणाव॒भिष्टौ॑ ।
दस्रा॑ ह॒ यद्रेक्ण॑ औच॒थ्यो वां॒ प्र यत्स॒स्राथे॒ अक॑वाभिरू॒ती ॥
वसू रुद्रा पुरुमन्तू वृधन्ता दशस्यतं नो वृषणाव् अभिष्टौ |
दस्रा ह यद् रेक्ण औचथ्यो वाम् प्र यत् सस्राथे अकवाभिर् ऊती ||
vásū rudrā́ purumántū vṛdhántā daśasyátam no vṛṣaṇāvabhíṣṭau ǀ
dásrā ha yádrékṇa aucathyó vām prá yátsasrā́the ákavābhirūtī́ ǁ
vasū rudrā purumantū vṛdhantā daśasyataṃ no vṛṣaṇāv abhiṣṭau |
dasrā ha yad rekṇa aucathyo vām pra yat sasrāthe akavābhir ūtī ||
Padapāṭha
वसू॒ इति॑ । रु॒द्रा । पु॒रु॒मन्तू॒ इति॑ पु॒रु॒ऽमन्तू॑ । वृ॒धन्ता॑ । द॒श॒स्यत॑म् । नः॒ । वृ॒ष॒णौ॒ । अ॒भिष्टौ॑ ।
दस्रा॑ । ह॒ । यत् । रेक्णः॑ । औ॒च॒थ्यः । वा॒म् । प्र । यत् । स॒स्राथे॒ इति॑ । अक॑वाभिः । ऊ॒ती ॥
वसू इति । रुद्रा । पुरुमन्तू इति पुरुऽमन्तू । वृधन्ता । दशस्यतम् । नः । वृषणौ । अभिष्टौ ।
दस्रा । ह । यत् । रेक्णः । औचथ्यः । वाम् । प्र । यत् । सस्राथे इति । अकवाभिः । ऊती ॥
vásū íti ǀ rudrā́ ǀ purumántū íti puru-mántū ǀ vṛdhántā ǀ daśasyátam ǀ naḥ ǀ vṛṣaṇau ǀ abhíṣṭau ǀ
dásrā ǀ ha ǀ yát ǀ rékṇaḥ ǀ aucathyáḥ ǀ vām ǀ prá ǀ yát ǀ sasrā́the íti ǀ ákavābhiḥ ǀ ūtī́ ǁ
vasū iti ǀ rudrā ǀ purumantū iti puru-mantū ǀ vṛdhantā ǀ daśasyatam ǀ naḥ ǀ vṛṣaṇau ǀ abhiṣṭau ǀ
dasrā ǀ ha ǀ yat ǀ rekṇaḥ ǀ aucathyaḥ ǀ vām ǀ pra ǀ yat ǀ sasrāthe iti ǀ akavābhiḥ ǀ ūtī ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.158.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.01.00
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.