Ṛgveda · Maṇḍala 1 · Sūkta 183
Ṛk 1.183.5
Saṃhitā
यु॒वां गोत॑मः पुरुमी॒ळ्हो अत्रि॒र्दस्रा॒ हव॒तेऽव॑से ह॒विष्मा॑न् ।
दिशं॒ न दि॒ष्टामृ॑जू॒येव॒ यंता मे॒ हवं॑ नास॒त्योप॑ यातं ॥
युवां गोतमः पुरुमीऌहो अत्रिर् दस्रा हवते ऽवसे हविष्मान् |
दिशं न दिष्टाम् ऋजूयेव यन्ता मे हवं नासत्योप यातम् ||
yuvā́m gótamaḥ purumīḷhó átrirdásrā hávaté’vase havíṣmān ǀ
díśam ná diṣṭā́mṛjūyéva yántā́ me hávam nāsatyópa yātam ǁ
yuvāṃ gotamaḥ purumīḷho atrir dasrā havate 'vase haviṣmān |
diśaṃ na diṣṭām ṛjūyeva yantā me havaṃ nāsatyopa yātam ||
Padapāṭha
यु॒वम् । गोत॑मः । पु॒रु॒ऽमी॒ळ्हः । अत्रिः॑ । दस्रा॑ । हव॑ते । अव॑से । ह॒विष्मा॑न् ।
दिश॑म् । न । दि॒ष्टाम् । ऋ॒जु॒याऽइ॑व । यन्ता॑ । आ । मे॒ । हव॑म् । ना॒स॒त्या॒ । उप॑ । या॒त॒म् ॥
युवम् । गोतमः । पुरुऽमीळ्हः । अत्रिः । दस्रा । हवते । अवसे । हविष्मान् ।
दिशम् । न । दिष्टाम् । ऋजुयाऽइव । यन्ता । आ । मे । हवम् । नासत्या । उप । यातम् ॥
yuvám ǀ gótamaḥ ǀ puru-mīḷháḥ ǀ átriḥ ǀ dásrā ǀ hávate ǀ ávase ǀ havíṣmān ǀ
díśam ǀ ná ǀ diṣṭā́m ǀ ṛjuyā́-iva ǀ yántā ǀ ā́ ǀ me ǀ hávam ǀ nāsatyā ǀ úpa ǀ yātam ǁ
yuvam ǀ gotamaḥ ǀ puru-mīḷhaḥ ǀ atriḥ ǀ dasrā ǀ havate ǀ avase ǀ haviṣmān ǀ
diśam ǀ na ǀ diṣṭām ǀ ṛjuyā-iva ǀ yantā ǀ ā ǀ me ǀ havam ǀ nāsatyā ǀ upa ǀ yātam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.183.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.29.05
- Maṇḍala · Anuvāka · Ṛk
- 1.24.032
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.