Ṛgveda · Maṇḍala 1 · Sūkta 183
Ṛk 1.183.3
Saṃhitā
आ ति॑ष्ठतं सु॒वृतं॒ यो रथो॑ वा॒मनु॑ व्र॒तानि॒ वर्त॑ते ह॒विष्मा॑न् ।
येन॑ नरा नासत्येष॒यध्यै॑ व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ॥
आ तिष्ठतं सुवृतं यो रथो वाम् अनु व्रतानि वर्तते हविष्मान् |
येन नरा नासत्येषयध्यै वर्तिर् याथस् तनयाय त्मने च ||
ā́ tiṣṭhatam suvṛ́tam yó rátho vāmánu vratā́ni vártate havíṣmān ǀ
yéna narā nāsatyeṣayádhyai vartíryāthástánayāya tmáne ca ǁ
ā tiṣṭhataṃ suvṛtaṃ yo ratho vām anu vratāni vartate haviṣmān |
yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca ||
Padapāṭha
आ । ति॒ष्ठ॒त॒म् । सु॒ऽवृत॑म् । यः । रथः॑ । वा॒म् । अनु॑ । व्र॒तानि॑ । वर्त॑ते । ह॒विष्मा॑न् ।
येन॑ । न॒रा॒ । ना॒स॒त्या॒ । इ॒ष॒यध्यै॑ । व॒र्तिः । या॒थः । तन॑याय । त्मने॑ । च॒ ॥
आ । तिष्ठतम् । सुऽवृतम् । यः । रथः । वाम् । अनु । व्रतानि । वर्तते । हविष्मान् ।
येन । नरा । नासत्या । इषयध्यै । वर्तिः । याथः । तनयाय । त्मने । च ॥
ā́ ǀ tiṣṭhatam ǀ su-vṛ́tam ǀ yáḥ ǀ ráthaḥ ǀ vām ǀ ánu ǀ vratā́ni ǀ vártate ǀ havíṣmān ǀ
yéna ǀ narā ǀ nāsatyā ǀ iṣayádhyai ǀ vartíḥ ǀ yātháḥ ǀ tánayāya ǀ tmáne ǀ ca ǁ
ā ǀ tiṣṭhatam ǀ su-vṛtam ǀ yaḥ ǀ rathaḥ ǀ vām ǀ anu ǀ vratāni ǀ vartate ǀ haviṣmān ǀ
yena ǀ narā ǀ nāsatyā ǀ iṣayadhyai ǀ vartiḥ ǀ yāthaḥ ǀ tanayāya ǀ tmane ǀ ca ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.183.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.29.03
- Maṇḍala · Anuvāka · Ṛk
- 1.24.030
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.