Ṛk 1.46.3
Saṃhitā
व॒च्यंते॑ वां ककु॒हासो॑ जू॒र्णाया॒मधि॑ वि॒ष्टपि॑ ।
यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥
वच्यन्ते वां ककुहासो जूर्णायाम् अधि विष्टपि |
यद् वां रथो विभिष् पतात् ||
vacyánte vām kakuhā́so jūrṇā́yāmádhi viṣṭápi ǀ
yádvām rátho víbhiṣpátāt ǁ
vacyante vāṃ kakuhāso jūrṇāyām adhi viṣṭapi |
yad vāṃ ratho vibhiṣ patāt ||
Padapāṭha
व॒च्यन्ते॑ । वा॒म् । क॒कु॒हासः॑ । जू॒र्णाया॑म् । अधि॑ । वि॒ष्टपि॑ ।
यत् । वा॒म् । रथः॑ । विऽभिः॑ । पता॑त् ॥
वच्यन्ते । वाम् । ककुहासः । जूर्णायाम् । अधि । विष्टपि ।
यत् । वाम् । रथः । विऽभिः । पतात् ॥
vacyánte ǀ vām ǀ kakuhā́saḥ ǀ jūrṇā́yām ǀ ádhi ǀ viṣṭápi ǀ
yát ǀ vām ǀ ráthaḥ ǀ ví-bhiḥ ǀ pátāt ǁ
vacyante ǀ vām ǀ kakuhāsaḥ ǀ jūrṇāyām ǀ adhi ǀ viṣṭapi ǀ
yat ǀ vām ǀ rathaḥ ǀ vi-bhiḥ ǀ patāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.046.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.33.03
- Maṇḍala · Anuvāka · Ṛk
- 01.09.027
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.