Ṛgveda · Maṇḍala 1 · Sūkta 179
Ṛk 1.179.1
Saṃhitā
पू॒र्वीर॒हं श॒रदः॑ शश्रमा॒णा दो॒षा वस्तो॑रु॒षसो॑ ज॒रयं॑तीः ।
मि॒नाति॒ श्रियं॑ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ॥
पूर्वीर् अहं शरदः शश्रमाणा दोषा वस्तोर् उषसो जरयन्तीः |
मिनाति श्रियं जरिमा तनूनाम् अप्य् ऊ नु पत्नीर् वृषणो जगम्युः ||
pūrvī́rahám śarádaḥ śaśramāṇā́ doṣā́ vástoruṣáso jaráyantīḥ ǀ
minā́ti śríyam jarimā́ tanū́nāmápyū nú pátnīrvṛ́ṣaṇo jagamyuḥ ǁ
pūrvīr ahaṃ śaradaḥ śaśramāṇā doṣā vastor uṣaso jarayantīḥ |
mināti śriyaṃ jarimā tanūnām apy ū nu patnīr vṛṣaṇo jagamyuḥ ||
Padapāṭha
पू॒र्वीः । अ॒हम् । श॒रदः॑ । श॒श्र॒मा॒णा । दो॒षाः । वस्तोः॑ । उ॒षसः॑ । ज॒रय॑न्तीः ।
मि॒नाति॑ । श्रिय॑म् । ज॒रि॒मा । त॒नूना॑म् । अपि॑ । ऊं॒ इति॑ । नु । पत्नीः॑ । वृष॑णः । ज॒ग॒म्युः॒ ॥
पूर्वीः । अहम् । शरदः । शश्रमाणा । दोषाः । वस्तोः । उषसः । जरयन्तीः ।
मिनाति । श्रियम् । जरिमा । तनूनाम् । अपि । ऊं इति । नु । पत्नीः । वृषणः । जगम्युः ॥
pūrvī́ḥ ǀ ahám ǀ śarádaḥ ǀ śaśramāṇā́ ǀ doṣā́ḥ ǀ vástoḥ ǀ uṣásaḥ ǀ jaráyantīḥ ǀ
minā́ti ǀ śríyam ǀ jarimā́ ǀ tanū́nām ǀ ápi ǀ ūṃ íti ǀ nú ǀ pátnīḥ ǀ vṛ́ṣaṇaḥ ǀ jagamyuḥ ǁ
pūrvīḥ ǀ aham ǀ śaradaḥ ǀ śaśramāṇā ǀ doṣāḥ ǀ vastoḥ ǀ uṣasaḥ ǀ jarayantīḥ ǀ
mināti ǀ śriyam ǀ jarimā ǀ tanūnām ǀ api ǀ ūṃ iti ǀ nu ǀ patnīḥ ǀ vṛṣaṇaḥ ǀ jagamyuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.179.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.22.01
- Maṇḍala · Anuvāka · Ṛk
- 1.23.119
- Devatā देवता
- 1, 2, 4: Agastya; 3, 5, 6: Lopamudrā
- Ṛṣi ऋषि
- 1, 2, 4: Lopamudrā; 3, 5, 6: Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh, Bṛhatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.