Ṛgveda · Maṇḍala 1 · Sūkta 106
Ṛk 1.106.5
Saṃhitā
बृह॑स्पते॒ सद॒मिन्नः॑ सु॒गं कृ॑धि॒ शं योर्यत्ते॒ मनु॑र्हितं॒ तदी॑महे ।
रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥
बृहस्पते सदम् इन् नः सुगं कृधि शं योर् यत् ते मनुर्हितं तद् ईमहे |
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ||
bṛ́haspate sádamínnaḥ sugám kṛdhi śám yóryátte mánurhitam tádīmahe ǀ
rátham ná durgā́dvasavaḥ sudānavo víśvasmānno áṃhaso níṣpipartana ǁ
bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe |
rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana ||
Padapāṭha
बृह॑स्पते । सद॑म् । इत् । नः॒ । सु॒ऽगम् । कृ॒धि॒ । शम् । योः । यत् । ते॒ । मनुः॑ऽहितम् । तत् । ई॒म॒हे॒ ।
रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒न॒वः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥
बृहस्पते । सदम् । इत् । नः । सुऽगम् । कृधि । शम् । योः । यत् । ते । मनुःऽहितम् । तत् । ईमहे ।
रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥
bṛ́haspate ǀ sádam ǀ ít ǀ naḥ ǀ su-gám ǀ kṛdhi ǀ śám ǀ yóḥ ǀ yát ǀ te ǀ mánuḥ-hitam ǀ tát ǀ īmahe ǀ
rátham ǀ ná ǀ duḥ-gā́t ǀ vasavaḥ ǀ su-dānavaḥ ǀ víśvasmāt ǀ naḥ ǀ áṃhasaḥ ǀ níḥ ǀ pipartana ǁ
bṛhaspate ǀ sadam ǀ it ǀ naḥ ǀ su-gam ǀ kṛdhi ǀ śam ǀ yoḥ ǀ yat ǀ te ǀ manuḥ-hitam ǀ tat ǀ īmahe ǀ
ratham ǀ na ǀ duḥ-gāt ǀ vasavaḥ ǀ su-dānavaḥ ǀ viśvasmāt ǀ naḥ ǀ aṃhasaḥ ǀ niḥ ǀ pipartana ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.106.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.24.05
- Maṇḍala · Anuvāka · Ṛk
- 1.16.005
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.