Ṛk 1.80.16
Saṃhitā
यामथ॑र्वा॒ मनु॑ष्पि॒ता द॒ध्यङ् धिय॒मत्न॑त ।
तस्मि॒न्ब्रह्मा॑णि पू॒र्वथेंद्र॑ उ॒क्था सम॑ग्म॒तार्च॒न्ननु॑ स्व॒राज्यं॑ ॥
याम् अथर्वा मनुष् पिता दध्यङ् धियम् अत्नत |
तस्मिन् ब्रह्माणि पूर्वथेन्द्र उक्था सम् अग्मतार्चन्न् अनु स्वराज्यम् ||
yā́mátharvā mánuṣpitā́ dadhyáṅ dhíyamátnata ǀ
tásminbráhmāṇi pūrváthéndra ukthā́ sámagmatā́rcannánu svarā́jyam ǁ
yām atharvā manuṣ pitā dadhyaṅ dhiyam atnata |
tasmin brahmāṇi pūrvathendra ukthā sam agmatārcann anu svarājyam ||
Padapāṭha
याम् । अथ॑र्वा । मनुः॑ । पि॒ता । द॒ध्यङ् । धिय॑म् । अत्न॑त ।
तस्मि॑न् । ब्रह्मा॑णि । पू॒र्वऽथा॑ । इन्द्रे॑ । उ॒क्था । सम् । अ॒ग्म॒त॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
याम् । अथर्वा । मनुः । पिता । दध्यङ् । धियम् । अत्नत ।
तस्मिन् । ब्रह्माणि । पूर्वऽथा । इन्द्रे । उक्था । सम् । अग्मत । अर्चन् । अनु । स्वऽराज्यम् ॥
yā́m ǀ átharvā ǀ mánuḥ ǀ pitā́ ǀ dadhyáṅ ǀ dhíyam ǀ átnata ǀ
tásmin ǀ bráhmāṇi ǀ pūrvá-thā ǀ índre ǀ ukthā́ ǀ sám ǀ agmata ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁ
yām ǀ atharvā ǀ manuḥ ǀ pitā ǀ dadhyaṅ ǀ dhiyam ǀ atnata ǀ
tasmin ǀ brahmāṇi ǀ pūrva-thā ǀ indre ǀ ukthā ǀ sam ǀ agmata ǀ arcan ǀ anu ǀ sva-rājyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.080.16
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.31.06
- Maṇḍala · Anuvāka · Ṛk
- 1.13.057
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.