Ṛk 1.80.15
Saṃhitā
न॒हि नु याद॑धी॒मसींद्रं॒ को वी॒र्या॑ प॒रः ।
तस्मि॑न्नृ॒म्णमु॒त क्रतुं॑ दे॒वा ओजां॑सि॒ सं द॑धु॒रर्च॒न्ननु॑ स्व॒राज्यं॑ ॥
नहि नु याद् अधीमसीन्द्रं को वीर्या परः |
तस्मिन् नृम्णम् उत क्रतुं देवा ओजांसि सं दधुर् अर्चन्न् अनु स्वराज्यम् ||
nahí nú yā́dadhīmásī́ndram kó vīryā́ paráḥ ǀ
tásminnṛmṇámutá krátum devā́ ójāṃsi sám dadhurárcannánu svarā́jyam ǁ
nahi nu yād adhīmasīndraṃ ko vīryā paraḥ |
tasmin nṛmṇam uta kratuṃ devā ojāṃsi saṃ dadhur arcann anu svarājyam ||
Padapāṭha
न॒हि । नु । यात् । अ॒धि॒ऽइ॒मसि॑ । इन्द्र॑म् । कः । वी॒र्या॑ । प॒रः ।
तस्मि॑न् । नृ॒म्णम् । उ॒त । क्रतु॑म् । दे॒वाः । ओजां॑सि । सम् । द॒धुः॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
नहि । नु । यात् । अधिऽइमसि । इन्द्रम् । कः । वीर्या । परः ।
तस्मिन् । नृम्णम् । उत । क्रतुम् । देवाः । ओजांसि । सम् । दधुः । अर्चन् । अनु । स्वऽराज्यम् ॥
nahí ǀ nú ǀ yā́t ǀ adhi-imási ǀ índram ǀ káḥ ǀ vīryā́ ǀ paráḥ ǀ
tásmin ǀ nṛmṇám ǀ utá ǀ krátum ǀ devā́ḥ ǀ ójāṃsi ǀ sám ǀ dadhuḥ ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁ
nahi ǀ nu ǀ yāt ǀ adhi-imasi ǀ indram ǀ kaḥ ǀ vīryā ǀ paraḥ ǀ
tasmin ǀ nṛmṇam ǀ uta ǀ kratum ǀ devāḥ ǀ ojāṃsi ǀ sam ǀ dadhuḥ ǀ arcan ǀ anu ǀ sva-rājyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.080.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.31.05
- Maṇḍala · Anuvāka · Ṛk
- 1.13.056
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.