Ṛk 1.80.10
Saṃhitā
इंद्रो॑ वृ॒त्रस्य॒ तवि॑षीं॒ निर॑ह॒न्त्सह॑सा॒ सहः॑ ।
म॒हत्तद॑स्य॒ पौंस्यं॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒दर्च॒न्ननु॑ स्व॒राज्यं॑ ॥
इन्द्रो वृत्रस्य तविषीं निर् अहन् सहसा सहः |
महत् तद् अस्य पौंस्यं वृत्रं जघन्वां असृजद् अर्चन्न् अनु स्वराज्यम् ||
índro vṛtrásya táviṣīm nírahantsáhasā sáhaḥ ǀ
maháttádasya páuṃsyam vṛtrám jaghanvā́m̐ asṛjadárcannánu svarā́jyam ǁ
indro vṛtrasya taviṣīṃ nir ahan sahasā sahaḥ |
mahat tad asya pauṃsyaṃ vṛtraṃ jaghanvāṃ asṛjad arcann anu svarājyam ||
Padapāṭha
इन्द्रः॑ । वृ॒त्रस्य॑ । तवि॑षीम् । निः । अ॒ह॒न् । सह॑सा । सहः॑ ।
म॒हत् । तत् । अ॒स्य॒ । पौंस्य॑म् । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒सृ॒ज॒त् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
इन्द्रः । वृत्रस्य । तविषीम् । निः । अहन् । सहसा । सहः ।
महत् । तत् । अस्य । पौंस्यम् । वृत्रम् । जघन्वान् । असृजत् । अर्चन् । अनु । स्वऽराज्यम् ॥
índraḥ ǀ vṛtrásya ǀ táviṣīm ǀ níḥ ǀ ahan ǀ sáhasā ǀ sáhaḥ ǀ
mahát ǀ tát ǀ asya ǀ páuṃsyam ǀ vṛtrám ǀ jaghanvā́n ǀ asṛjat ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁ
indraḥ ǀ vṛtrasya ǀ taviṣīm ǀ niḥ ǀ ahan ǀ sahasā ǀ sahaḥ ǀ
mahat ǀ tat ǀ asya ǀ pauṃsyam ǀ vṛtram ǀ jaghanvān ǀ asṛjat ǀ arcan ǀ anu ǀ sva-rājyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.080.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.30.05
- Maṇḍala · Anuvāka · Ṛk
- 1.13.051
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.