Ṛk 1.80.4
Saṃhitā
निरिं॑द्र॒ भूम्या॒ अधि॑ वृ॒त्रं ज॑घंथ॒ निर्दि॒वः ।
सृ॒जा म॒रुत्व॑ती॒रव॑ जी॒वध॑न्या इ॒मा अ॒पोऽर्च॒न्ननु॑ स्व॒राज्यं॑ ॥
निर् इन्द्र भूम्या अधि वृत्रं जघन्थ निर् दिवः |
सृजा मरुत्वतीर् अव जीवधन्या इमा अपो ऽर्चन्न् अनु स्वराज्यम् ||
nírindra bhū́myā ádhi vṛtrám jaghantha nírdiváḥ ǀ
sṛjā́ marútvatīráva jīvádhanyā imā́ apó’rcannánu svarā́jyam ǁ
nir indra bhūmyā adhi vṛtraṃ jaghantha nir divaḥ |
sṛjā marutvatīr ava jīvadhanyā imā apo 'rcann anu svarājyam ||
Padapāṭha
निः । इ॒न्द्र॒ । भूम्याः॑ । अधि॑ । वृ॒त्रम् । ज॒घ॒न्थ॒ । निः । दि॒वः ।
सृ॒ज । म॒रुत्व॑तीः । अव॑ । जी॒वऽध॑न्याः । इ॒माः । अ॒पः । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
निः । इन्द्र । भूम्याः । अधि । वृत्रम् । जघन्थ । निः । दिवः ।
सृज । मरुत्वतीः । अव । जीवऽधन्याः । इमाः । अपः । अर्चन् । अनु । स्वऽराज्यम् ॥
níḥ ǀ indra ǀ bhū́myāḥ ǀ ádhi ǀ vṛtrám ǀ jaghantha ǀ níḥ ǀ diváḥ ǀ
sṛjá ǀ marútvatīḥ ǀ áva ǀ jīvá-dhanyāḥ ǀ imā́ḥ ǀ apáḥ ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁ
niḥ ǀ indra ǀ bhūmyāḥ ǀ adhi ǀ vṛtram ǀ jaghantha ǀ niḥ ǀ divaḥ ǀ
sṛja ǀ marutvatīḥ ǀ ava ǀ jīva-dhanyāḥ ǀ imāḥ ǀ apaḥ ǀ arcan ǀ anu ǀ sva-rājyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.080.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.29.04
- Maṇḍala · Anuvāka · Ṛk
- 1.13.045
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.