Ṛk 1.80.2
Saṃhitā
स त्वा॑मद॒द्वृषा॒ मदः॒ सोमः॑ श्ये॒नाभृ॑तः सु॒तः ।
येना॑ वृ॒त्रं निर॒द्भ्यो ज॒घंथ॑ वज्रि॒न्नोज॒सार्च॒न्ननु॑ स्व॒राज्यं॑ ॥
स त्वामदद् वृषा मदः सोमः श्येनाभृतः सुतः |
येना वृत्रं निर् अद्भ्यो जघन्थ वज्रिन्न् ओजसार्चन्न् अनु स्वराज्यम् ||
sá tvāmadadvṛ́ṣā mádaḥ sómaḥ śyenā́bhṛtaḥ sutáḥ ǀ
yénā vṛtrám níradbhyó jaghántha vajrinnójasā́rcannánu svarā́jyam ǁ
sa tvāmadad vṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ |
yenā vṛtraṃ nir adbhyo jaghantha vajrinn ojasārcann anu svarājyam ||
Padapāṭha
सः । त्वा॒ । अ॒म॒द॒त् । वृषा॑ । मदः॑ । सोमः॑ । श्ये॒नऽआ॑भृतः । सु॒तः ।
येन॑ । वृ॒त्रम् । निः । अ॒त्ऽभ्यः । ज॒घन्थ॑ । व॒ज्रि॒न् । ओज॑सा । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
सः । त्वा । अमदत् । वृषा । मदः । सोमः । श्येनऽआभृतः । सुतः ।
येन । वृत्रम् । निः । अत्ऽभ्यः । जघन्थ । वज्रिन् । ओजसा । अर्चन् । अनु । स्वऽराज्यम् ॥
sáḥ ǀ tvā ǀ amadat ǀ vṛ́ṣā ǀ mádaḥ ǀ sómaḥ ǀ śyená-ābhṛtaḥ ǀ sutáḥ ǀ
yéna ǀ vṛtrám ǀ níḥ ǀ at-bhyáḥ ǀ jaghántha ǀ vajrin ǀ ójasā ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁ
saḥ ǀ tvā ǀ amadat ǀ vṛṣā ǀ madaḥ ǀ somaḥ ǀ śyena-ābhṛtaḥ ǀ sutaḥ ǀ
yena ǀ vṛtram ǀ niḥ ǀ at-bhyaḥ ǀ jaghantha ǀ vajrin ǀ ojasā ǀ arcan ǀ anu ǀ sva-rājyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.080.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.29.02
- Maṇḍala · Anuvāka · Ṛk
- 1.13.043
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.