Ṛk 1.80.12
Saṃhitā
न वेप॑सा॒ न त॑न्य॒तेंद्रं॑ वृ॒त्रो वि बी॑भयत् ।
अ॒भ्ये॑नं॒ वज्र॑ आय॒सः स॒हस्र॑भृष्टिराय॒तार्च॒न्ननु॑ स्व॒राज्यं॑ ॥
न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत् |
अभ्य् एनं वज्र आयसः सहस्रभृष्टिर् आयतार्चन्न् अनु स्वराज्यम् ||
ná vépasā ná tanyaténdram vṛtró ví bībhayat ǀ
abhyénam vájra āyasáḥ sahásrabhṛṣṭirāyatā́rcannánu svarā́jyam ǁ
na vepasā na tanyatendraṃ vṛtro vi bībhayat |
abhy enaṃ vajra āyasaḥ sahasrabhṛṣṭir āyatārcann anu svarājyam ||
Padapāṭha
न । वेप॑सा । न । त॒न्य॒ता । इन्द्र॑म् । वृ॒त्रः । वि । बी॒भ॒य॒त् ।
अ॒भि । ए॒न॒म् । वज्रः॑ । आ॒य॒सः । स॒हस्र॑ऽभृष्टिः । आ॒य॒त॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
न । वेपसा । न । तन्यता । इन्द्रम् । वृत्रः । वि । बीभयत् ।
अभि । एनम् । वज्रः । आयसः । सहस्रऽभृष्टिः । आयत । अर्चन् । अनु । स्वऽराज्यम् ॥
ná ǀ vépasā ǀ ná ǀ tanyatā́ ǀ índram ǀ vṛtráḥ ǀ ví ǀ bībhayat ǀ
abhí ǀ enam ǀ vájraḥ ǀ āyasáḥ ǀ sahásra-bhṛṣṭiḥ ǀ āyata ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁ
na ǀ vepasā ǀ na ǀ tanyatā ǀ indram ǀ vṛtraḥ ǀ vi ǀ bībhayat ǀ
abhi ǀ enam ǀ vajraḥ ǀ āyasaḥ ǀ sahasra-bhṛṣṭiḥ ǀ āyata ǀ arcan ǀ anu ǀ sva-rājyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.080.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.31.02
- Maṇḍala · Anuvāka · Ṛk
- 1.13.053
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.