Ṛk 1.80.13
Saṃhitā
यद्वृ॒त्रं तव॑ चा॒शनिं॒ वज्रे॑ण स॒मयो॑धयः ।
अहि॑मिंद्र॒ जिघां॑सतो दि॒वि ते॑ बद्बधे॒ शवोऽर्च॒न्ननु॑ स्व॒राज्यं॑ ॥
यद् वृत्रं तव चाशनिं वज्रेण समयोधयः |
अहिम् इन्द्र जिघांसतो दिवि ते बद्बधे शवो ऽर्चन्न् अनु स्वराज्यम् ||
yádvṛtrám táva cāśánim vájreṇa samáyodhayaḥ ǀ
áhimindra jíghāṃsato diví te badbadhe śávó’rcannánu svarā́jyam ǁ
yad vṛtraṃ tava cāśaniṃ vajreṇa samayodhayaḥ |
ahim indra jighāṃsato divi te badbadhe śavo 'rcann anu svarājyam ||
Padapāṭha
यत् । वृ॒त्रम् । तव॑ । च॒ । अ॒शनि॑म् । वज्रे॑ण । स॒म्ऽअयो॑धयः ।
अहि॑म् । इ॒न्द्र॒ । जिघां॑सतः । दि॒वि । ते॒ । ब॒द्ब॒धे॒ । शवः॑ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
यत् । वृत्रम् । तव । च । अशनिम् । वज्रेण । सम्ऽअयोधयः ।
अहिम् । इन्द्र । जिघांसतः । दिवि । ते । बद्बधे । शवः । अर्चन् । अनु । स्वऽराज्यम् ॥
yát ǀ vṛtrám ǀ táva ǀ ca ǀ aśánim ǀ vájreṇa ǀ sam-áyodhayaḥ ǀ
áhim ǀ indra ǀ jíghāṃsataḥ ǀ diví ǀ te ǀ badbadhe ǀ śávaḥ ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁ
yat ǀ vṛtram ǀ tava ǀ ca ǀ aśanim ǀ vajreṇa ǀ sam-ayodhayaḥ ǀ
ahim ǀ indra ǀ jighāṃsataḥ ǀ divi ǀ te ǀ badbadhe ǀ śavaḥ ǀ arcan ǀ anu ǀ sva-rājyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.080.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.31.03
- Maṇḍala · Anuvāka · Ṛk
- 1.13.054
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.