Ṛk 1.39.3
Saṃhitā
परा॑ ह॒ यत्स्थि॒रं ह॒थ नरो॑ व॒र्तय॑था गु॒रु ।
वि या॑थन व॒निनः॑ पृथि॒व्या व्याशाः॒ पर्व॑तानां ॥
परा ह यत् स्थिरं हथ नरो वर्तयथा गुरु |
वि याथन वनिनः पृथिव्या व्य् आशाः पर्वतानाम् ||
párā ha yátsthirám hathá náro vartáyathā gurú ǀ
ví yāthana vanínaḥ pṛthivyā́ vyā́śāḥ párvatānām ǁ
parā ha yat sthiraṃ hatha naro vartayathā guru |
vi yāthana vaninaḥ pṛthivyā vy āśāḥ parvatānām ||
Padapāṭha
परा॑ । ह॒ । यत् । स्थि॒रम् । ह॒थ । नरः॑ । व॒र्तय॑थ । गु॒रु ।
वि । या॒थ॒न॒ । व॒निनः॑ । पृ॒थि॒व्याः । वि । आशाः॑ । पर्व॑तानाम् ॥
परा । ह । यत् । स्थिरम् । हथ । नरः । वर्तयथ । गुरु ।
वि । याथन । वनिनः । पृथिव्याः । वि । आशाः । पर्वतानाम् ॥
párā ǀ ha ǀ yát ǀ sthirám ǀ hathá ǀ náraḥ ǀ vartáyatha ǀ gurú ǀ
ví ǀ yāthana ǀ vanínaḥ ǀ pṛthivyā́ḥ ǀ ví ǀ ā́śāḥ ǀ párvatānām ǁ
parā ǀ ha ǀ yat ǀ sthiram ǀ hatha ǀ naraḥ ǀ vartayatha ǀ guru ǀ
vi ǀ yāthana ǀ vaninaḥ ǀ pṛthivyāḥ ǀ vi ǀ āśāḥ ǀ parvatānām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.039.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.18.03
- Maṇḍala · Anuvāka · Ṛk
- 01.08.053
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Kaṇva Ghaura
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.