Ṛk 1.39.4
Saṃhitā
न॒हि वः॒ शत्रु॑र्विवि॒दे अधि॒ द्यवि॒ न भूम्यां॑ रिशादसः ।
यु॒ष्माक॑मस्तु॒ तवि॑षी॒ तना॑ यु॒जा रुद्रा॑सो॒ नू चि॑दा॒धृषे॑ ॥
नहि वः शत्रुर् विविदे अधि द्यवि न भूम्यां रिशादसः |
युष्माकम् अस्तु तविषी तना युजा रुद्रासो नू चिद् आधृषे ||
nahí vaḥ śátrurvividé ádhi dyávi ná bhū́myām riśādasaḥ ǀ
yuṣmā́kamastu táviṣī tánā yujā́ rúdrāso nū́ cidādhṛ́ṣe ǁ
nahi vaḥ śatrur vivide adhi dyavi na bhūmyāṃ riśādasaḥ |
yuṣmākam astu taviṣī tanā yujā rudrāso nū cid ādhṛṣe ||
Padapāṭha
न॒हि । वः॒ । शत्रुः॑ । वि॒वि॒दे । अधि॑ । द्यवि॑ । न । भूम्या॑म् । रि॒शा॒द॒सः॒ ।
यु॒ष्माक॑म् । अ॒स्तु॒ । तवि॑षी । तना॑ । यु॒जा । रुद्रा॑सः । नु । चि॒त् । आ॒ऽधृषे॑ ॥
नहि । वः । शत्रुः । विविदे । अधि । द्यवि । न । भूम्याम् । रिशादसः ।
युष्माकम् । अस्तु । तविषी । तना । युजा । रुद्रासः । नु । चित् । आऽधृषे ॥
nahí ǀ vaḥ ǀ śátruḥ ǀ vividé ǀ ádhi ǀ dyávi ǀ ná ǀ bhū́myām ǀ riśādasaḥ ǀ
yuṣmā́kam ǀ astu ǀ táviṣī ǀ tánā ǀ yujā́ ǀ rúdrāsaḥ ǀ nú ǀ cit ǀ ā-dhṛ́ṣe ǁ
nahi ǀ vaḥ ǀ śatruḥ ǀ vivide ǀ adhi ǀ dyavi ǀ na ǀ bhūmyām ǀ riśādasaḥ ǀ
yuṣmākam ǀ astu ǀ taviṣī ǀ tanā ǀ yujā ǀ rudrāsaḥ ǀ nu ǀ cit ǀ ā-dhṛṣe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.039.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.18.04
- Maṇḍala · Anuvāka · Ṛk
- 01.08.054
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Kaṇva Ghaura
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.